SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४६॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । जाते पर्युषणापर्वण्यन्यदोदायनोऽकृत । उपवासं स हि श्राद्धस्तस्य देवस्य शासनात् ।। ५९१ ॥ सूदोऽथापृच्छत्प्रद्योतं किमद्य नृप ! भोक्ष्यसे ? । तच्छुत्वाऽवन्तिनाथोऽपि क्षोभादिदमचिन्तयत् ।। ५९२ प्रश्नो ह्यकृतपूर्वोऽयमद्य क्षेमावहो न मे । उपहासवचो ह्येतद्वधबन्धादिसूचकम् ।। ५९३ ।। सूपकारमपृच्छच्च किमद्य प्रश्नकारणम् ? । विद्याकृष्टेव रसवत्यागाद्धि समये सदा ।। ५९४ ।। सूदोऽप्यकथयद्राजन्नद्य पर्युषणोत्सवः । उपोषितोऽस्ति नः स्वामी सान्तःपुरपरिच्छदः ।। ५९५ ॥ राजार्थं या रसवती भोजितोऽसि तया सदा । अधुना तु त्वदर्थे तां करिष्यामीति पृछ्यसे ।। ५९६ ।। प्रद्योतः स्माह हे सूदोपवासोऽद्यास्तु मेऽपि हि । ज्ञापितं साधु पर्वेदं श्रावको पितरौ मम ॥ ५९७ ।। सूदोऽप्युदायनायाऽऽख्यत्तत्प्रद्योतस्य भाषितम् । उदायनोऽवददसौ धूर्तो जानाति वैशिकम् ॥ ५९८ ।। यादृशे तादृशे वाऽस्मिन् कारागारनिवासिनि । न मे साध्वी पर्युषणेत्यमुचत्तमुदायनः ॥ ५९९ ॥ प्रद्योतं क्षमयामास पर्वोचितमुदायनः । किरीटमेव ते पूर्वं बबन्धुौलिमंडनम् ।। ६०१ ॥ प्रद्योतायावन्तिदेशमुदायननृपो ददौ । वर्षारात्रे त्वतिक्रान्ते स्वयं वीतभयं ययौ ।। ६०२ ॥ शिबिरे तत्र वणिजस्तस्थिवांसस्तथैव हि । तैरेव वसमानं तज्जातं दशपुरं पुरम् ॥६०३ ॥ प्रद्योतोऽपि वीतभयप्रतिमायै विशुद्धधीः । शासनेन दशपुरं दत्त्वाऽवन्तिपुरीमगात् ।।६०४ ।। उदायननृपतिचरित्रम् । ||३४६॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy