________________
त्रिषष्टिशलाकापुरुषचरिते ||३४५॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
इत्युक्त्वा मंडलिकया भ्रमयन स्वरथं रयात् । दोष्मानुदायनो योर्बु स्मयमानोऽभ्यढौकत् ।। ५७८ ॥ शिलीमुखैः सूचिमुखैर्धनुर्धरधुरन्धरः । विव्याधानिलवेगस्य विष्वक् पादतलानि सः ।। ५७९ ।। बर्हिःशलाकासंपूर्णपतद्ग्रहमुखोपमैः । चरणैर्गन्तुमसहस्तद्विपोऽभूत् पपात च ।। ५८० ।। उदायनेन प्रद्योतः पातयित्वाऽथ कुञ्जरात् । हस्तेन जगृहे बद्ध्वा यशोराशिरिवोच्चकैः ।। ५८१ ।। ललाटेऽत व्यधादासीपतिरित्यक्षरैरथ । उदायनोऽवन्तिपतेः स्वां प्रशस्ति नवामिव ।। ५८२ ।। तमंकितं दासमिव कृत्वा वीतभयेश्वरः । तद्दिव्यप्रतिमारत्नमानेतुं विदिशां ययौ ।। ५८३ ।। पूजयित्वा च नत्वा च तां दिव्यां प्रतिमां नृपः । उपदातुमुपाक्रस्त गिरिवन्न चचाल सा ।। ५८४ ।। देवाधिदेवमर्चित्वा सविशेषमुदायनः । उवाच किमभाग्यं मे यन्नैषि परमेश्वरः (र!) ।। ५८५ ।। देवोऽप्युवाच मा शोचीयद्वीतभयपत्तनम् । पांशुवृष्ट्या स्थलं भावि तन्नैष्यामि महाशय ! ।। ५८६ ।। देवतादेशमासाद्योदायनोऽपि न्यवर्तत । प्रयाणवारणी प्रावृडन्तराले बभूव च ।। ५८७ ।। तत्रैव शिबिरं राजा न्यधात्पत्तनसन्निभम् । निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् ।। ५८८ ।। तस्थुः कृत्वा धूलिवप्रं तद्रक्षार्थ नृपा दश । ततस्तच्छिबिरं जज्ञे नाम्ना दशपुरं पुरम् ॥ ५८९ ।। उदायनोऽपि प्रद्योतं रणात्तं भोजनादिना । अपश्यदात्मानमिव क्षत्रधर्मोऽयमीदृशः ।। ५९० ॥ १ कयत् । २ बहिः श।
उदायननृपतिचरित्रम् ।
॥३४५॥