________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४४॥
| दशमं पर्व एकादशः ए: श्रीमहावीरजिनचरितम् ।
आगत्यानिलवेगेन नूनं प्रद्योतभूपतिः । प्रतिमां देवदत्तां च निशि चौर इवाहरत् ॥ ५६५ ।। उदायनोऽपि प्रद्योतं तत्क्षणादभ्यषणयत् । वादयन् क्ष्मां हयखुरैर्जयभंभामिवापराम् ।। ५६६ ।। दशाथ बद्धमुकुटा राजानोऽपि तमन्वगुः । एकादशापि ते चाभान् रुद्रा इव महौजसः ।। ५६७ ॥ अथोदायनसैन्यानां प्रत्यक्षा जांगलक्षितौ । आसन् पयायमानार्करोचिर्मय्यो मरीचिकाः ।। ५६८ ॥ आस्फलन्तो मिथो भूमौ लुठन्तोऽपि च सैनिकाः । तृषा न किंचिदद्राक्षुर्दिवसेऽपि हि धूकवत् ।। ५६९ ॥ सद्यः प्रभावतीदेवं तदाऽस्मार्षीदुदायनः । स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् ।। ५७० ॥ स्मृतमात्रोपस्थितेन तेन देवेन वारिणा । त्रिपुष्कराण्यपूर्यन्त प्रमोदेन च सैनिकाः ।। ५७१ ।। कटकं सुस्थितं चाभूत् पायं पायं पयस्तदा । विनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु ।। ५७२ ।। ततः प्रभावतीदेवो जगाम निजमालयम् । राजा वीतभयेशोऽपि प्रापदुज्जयिनी पुरीम् ।। ५७३ ॥ तत्रोदायनराजस्यावन्तिनाथस्य चाचिरात् । मिथो दूतमुखेनाभूद्रथसंगरसंगरः ।। ५७४ ।। उदायनोऽथारुरोह धन्वी सांग्रामिकं रथम् । वादयामास मौर्वी च रणतूरमिवापरम् ।। ५७५ ।। प्रद्योतोऽपि हि विज्ञाय रथाजय्यमुदायनम् । आरुढोऽनिलवेगेभं का प्रतिज्ञा बलीयसि ।। ५७६ ।। उदायनोऽपि तं दृष्ट्वा गजारुढमदोऽवदत् । पाप्मन्नसत्यसंधोऽसि तथापि न भवस्यरे ।। ५७७ ।।
उदायन
नृपतिचरित्रम् ।
॥३४४॥