________________
दशमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३४३॥
सर्गः श्रीमहावीरजिनचरितम् ।
धरणेन्द्रोऽप्युवाचैवं चंडप्रद्योतभूपतिः । देवकीयपुरं तत्र त्वन्नाम्ना कारयिष्यति ।। ५५२ ।। कृतार्धपूजस्त्वायासीरिति कालेन गच्छता । गुप्तव मिथ्याग्भिः सा प्रतिमा पूजयिष्यते ।। ५५३ ।। तस्याः प्रतिकृतिस्तैश्च बहिः संस्थापयिष्यते । आदित्यो भायलस्वामिनामाऽयमिति वादिभिः ।। ५५४ ।। ततश्च भायलस्वामिसूर्य इत्यखिलो जनः । पूजयिष्यति दंभोऽपि सुप्रयुक्तो न निष्फलः ।। ५५५ ॥ अभ्यधाद्भायलोऽप्येवमाः पापोऽस्मि धिगेव माम् । अत्याहितं ह्यापतितमशिवं मत्कृतं ह्यदः ।। ५५६ ॥ देवाधिदेवप्रतिमाप्रतिकृत्या दुराशयैः । मम नाम्नाऽऽदित्य इति कृत्वा यत्पूजयिष्यते ।। ५५७ ॥ धरणोऽप्यभ्यधान्मा गाः शुचं किं क्रियतेऽनघ! । एतद्धि दुःषमाकाललीलायितमनुज्ज्वलम् ।। ५५८ ।। ततो नागकुमाराभ्यां पथा तेनैव तत्क्षणम् । नीत्वाऽमुच्यत तत्रैव स्वप्नदर्शीव भायलः ।। ५५९ ।। इतश्च नगरे वीतभये राजाऽप्युदायनः । नित्यकर्मरतः प्रातर्देवताऽऽवसथं ययौ ।। ५६० ॥ ददर्श चाग्रे प्रतिमा म्लानमाल्यामुदायनः । अचिन्तयच्च काऽप्यन्या प्रतिमेयं न सा पुनः ।। ५६१ ॥ आरोपितानि तस्यां पुष्पाण्यहन्यपरेऽपि हि । तत्कालावचितानीवादृश्यन्त किमिदं हहा ।। ५६२ ।। स्तंभलमा सदैवास्थादिह पाञ्चालिकेव या । सा दासी देवदत्तापि विलीनेव न श्यते ।। ५६३ ।। निदाघे मरुवारीव नष्टश्च करिणां मदः । तदागादनिलवेगो नियतं गन्धसिन्धुरः ॥५६४ ॥ १ न्याहि ।२ प्रातश्च ।
उदायननृपतिचरित्रम् ।
॥३४३॥