________________
त्रिषष्टिशलाकापुरुषचरिते ||३४२॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
राजाऽपि गजमारुह्यावन्तीं प्राप तथा द्रुतम् । समागतेवाभिमुखं यथा सा पुर्यलक्ष्यत ।। ५३९ ॥ वणिजो विदिशापुर्या भायलस्वामिनोऽन्यदा । गोशीर्षकाष्ठप्रतिमा विद्युन्मालिप्रकाशिता ।। ५४० ॥ राज्ञा कुब्जिकया चापि पूजनाय समर्पिता । तयोस्तदपि बह्वेतद्विषयासक्तयोः सदा ॥५४१।। ।। युग्मम्।। अन्यदा भायलोऽद्राक्षीत्तेजोराशी इवांगिनौ । हस्तविन्यस्तपूजोपकरणौ पुरुषावुभौ ।। ५४२ ।। तौ ६ष्ट्वा दृष्टिसुखदावाजन्मसुहृदाविव । कौ युवामिति पप्रच्छ भायलोऽशंसतां च तौ ॥ ५४३ ॥ आवां नागकुमारौ भोः ! पातालभवनालयौ । नाम्ना कंबलशबलौ धरणेन्द्रस्य शासनात् ।। ५४४ ।। देवाधिदेवप्रतिमा विद्युन्मालिकृतामिमाम् । आयावोऽर्चयितुं चैत्यमेवम!पहारिणौ ॥५४५।। ।। युग्मम्॥ अस्या हि विदिशानद्या हृदमध्येन वर्त्मना । मज्जनोन्मज्जने नित्यमावां कुर्वोऽत्र हंसवत् ।। ५४६ ।। भायलः स्माह पाताले युवां स्वभवनानि मे । गृहीतभगवन्निश्रस्याद्य दर्शयतं सुरौ ! ।। ५४७ ॥ शाश्वतीः प्रतिमास्तत्र वन्दितुं मे मनोरथः । स पूर्यतां प्रसादाद्वां न मुधा देवदर्शनम् ।। ५४८ ॥ ताभ्या प्रपद्य च तथा तत्र तेनैव वर्त्मना । औत्सुक्यादर्धरचितपूजोऽनीयत भायलः ॥ ५४९ ।। ववन्दे शाश्वतीरर्हत्प्रतिमास्तत्र भायलः । तं चोचे धरणस्तोषात् प्रसादो याच्यतामिति ।। ५५० ।। भायलः स्माह मन्नाम सर्वत्र ज्ञायते यथा । तथास्तु नामस्थेमैव पुरुषाणां हि पौरुषम् ।। ५५१ ।। १"म तेनैव ।
उदायननृपतिचरित्रम् ।
॥३४२॥