________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४१॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
कपिलर्षिरदोऽवादीद्वादको नास्ति कश्चन । वाद्यं विना कुतो नृत्तं न कार्य कारणं विना ।। ५२६ ॥ तालवाद्यमथाकार्षुश्चौराः पञ्च शतान्यपि । कपिलोऽपि ननर्वोच्चैर्जगौ च श्रुतिशर्मदम् ।। ५२७ ॥ दुःखानुभवभूयिष्ठे किं भवेऽस्मिन्नशाश्वते । भवेत्तत्कर्म येनाहं गच्छेयं न हि दुर्गतिम् ।। ५२८ ॥ इत्यादिका ध्रुवाः पञ्च शतानि कपिलो जगौ । सर्वाः प्राकृतबन्धेन श्रव्यरागेण बन्धुराः ।। ५२९ ।। ध्रुवासु गीयमानासु कपिलेन महर्षिणा । ते चौराः प्रत्यबुध्यन्त कस्यांचित्कश्चिदेव च ।। ५३० ।। ततः शतानि पञ्चापि चौराणां स महामुनिः । पर्यव्राजयदेतद्धि हष्टं तज्ज्ञानचक्षुषा ।। ५३१ ॥ पुरे राजगृहे देवाधिदेवाज्ञां प्रगृह्य सः । ब्रह्मर्षिः कपिलोऽत्रैव त्वत्पुरीमस्ति पावयन् ।। ५३२ ।। केवल्येष स्वयंबुद्धः श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठां कोऽप्येष पुण्यानामुदयस्तव ।। ५३३ ।। ततश्चावन्तिनाथेन प्रार्थितः कपिलो मुनिः । प्रत्यष्ठात् प्रतिमां मंत्रपूतचूर्णानि निक्षिपन् ।। ५३४ ॥ चर्चयित्वाऽर्चयित्वा च दोामुद्धृत्य पार्थिवः । तां तद्धनो धनमिव हृद्द्वारे प्रतिमां दधौ ॥ ५३५ ।। न्यधादनिलवेगस्य स्कन्धे तां प्रतिमा नृपः । तदन्तरासनिकवदारुढोऽधारयत् स्वयम् ॥ ५३६ ।। दिव्याभियोगयानेभ्योऽप्यतिवेगेन दन्तिना । गत्वा वीतभये दास्यै प्रतिमां तां समार्पयत् ।। ५३७ ।। साऽपि तां प्रतिमां चैत्ये न्यस्यादाय पुरातनीम् । आगादासी प्रतिमां च नृपोऽप्यारोपयद् द्विपम् ॥५३८ ॥ १ नृत्यं । २ देवामि।
उदायननृपतिचरित्रम् ।
॥३४१॥