Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 390
________________ त्रिषष्टिशलाकापुरुषचरिते ||३४२॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । राजाऽपि गजमारुह्यावन्तीं प्राप तथा द्रुतम् । समागतेवाभिमुखं यथा सा पुर्यलक्ष्यत ।। ५३९ ॥ वणिजो विदिशापुर्या भायलस्वामिनोऽन्यदा । गोशीर्षकाष्ठप्रतिमा विद्युन्मालिप्रकाशिता ।। ५४० ॥ राज्ञा कुब्जिकया चापि पूजनाय समर्पिता । तयोस्तदपि बह्वेतद्विषयासक्तयोः सदा ॥५४१।। ।। युग्मम्।। अन्यदा भायलोऽद्राक्षीत्तेजोराशी इवांगिनौ । हस्तविन्यस्तपूजोपकरणौ पुरुषावुभौ ।। ५४२ ।। तौ ६ष्ट्वा दृष्टिसुखदावाजन्मसुहृदाविव । कौ युवामिति पप्रच्छ भायलोऽशंसतां च तौ ॥ ५४३ ॥ आवां नागकुमारौ भोः ! पातालभवनालयौ । नाम्ना कंबलशबलौ धरणेन्द्रस्य शासनात् ।। ५४४ ।। देवाधिदेवप्रतिमा विद्युन्मालिकृतामिमाम् । आयावोऽर्चयितुं चैत्यमेवम!पहारिणौ ॥५४५।। ।। युग्मम्॥ अस्या हि विदिशानद्या हृदमध्येन वर्त्मना । मज्जनोन्मज्जने नित्यमावां कुर्वोऽत्र हंसवत् ।। ५४६ ।। भायलः स्माह पाताले युवां स्वभवनानि मे । गृहीतभगवन्निश्रस्याद्य दर्शयतं सुरौ ! ।। ५४७ ॥ शाश्वतीः प्रतिमास्तत्र वन्दितुं मे मनोरथः । स पूर्यतां प्रसादाद्वां न मुधा देवदर्शनम् ।। ५४८ ॥ ताभ्या प्रपद्य च तथा तत्र तेनैव वर्त्मना । औत्सुक्यादर्धरचितपूजोऽनीयत भायलः ॥ ५४९ ।। ववन्दे शाश्वतीरर्हत्प्रतिमास्तत्र भायलः । तं चोचे धरणस्तोषात् प्रसादो याच्यतामिति ।। ५५० ।। भायलः स्माह मन्नाम सर्वत्र ज्ञायते यथा । तथास्तु नामस्थेमैव पुरुषाणां हि पौरुषम् ।। ५५१ ।। १"म तेनैव । उदायननृपतिचरित्रम् । ॥३४२॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458