Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
ज्ञानदीपिकावृत्तिः
इत्यादयस्त्रिपुराविशेषाः कविहस्तमल्लोक्तास्त्रिपुरासारसमुच्चयाज्ज्ञेयाः ।
,
यदि वा सरु इति सविसर्गं पदं, रेफमूलत्वाद्विसर्गाणाम् तेन ह्सौः इति सविसर्गं पदमाम्नायान्तरे ज्ञेयम् ।
अथ किमेषा त्रिपुरा उत त्रिपुरभैरवी । यथोत्तरषट्कशास्त्रे - त्रिपुरामुद्दिश्योद्धारः कृतः
अथातः सम्प्रवक्ष्यामि सम्प्रदायसमन्वितम् । त्रैलोक्यडामरं तन्त्रं त्रिपुरावाचकं महत् ॥१॥
पुनस्तत्रैव
पूर्वोक्तं यन्त्रमालिख्य त्रिपुरावाचकं महत् । अथातः सम्प्रवक्ष्यामि त्रिपुरायोगमुत्तमम् ॥२॥
पञ्चरात्रशास्त्रे त्रिपुरा त्रिपुरेति श्रूयते । तत्त्वसागरसंहितायाञ्चैतैर्बीजाक्षरैस्त्रिपुरभैरवी कथिता । यथा
वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं बीजसञ्ज्ञं स्यात्तद्धि सारस्वतं वपुः ॥१॥
एषा देवी मयाख्याता नित्या त्रिपुरभैरवी । एषा सा मूलविद्या तु नाम्ना त्रिपुरभैरवी ॥२॥
तत्कथमित्याह । सत्यम्, बहवोऽस्या उद्धारप्रकाराः सम्प्रदायाः पूजा
मार्गाश्च । तथा च नारदीयविशेषसंहितायामुक्तम्
वेदेषु धर्मशास्त्रेषु पुराणेष्वखिलेषु च ।
सिद्धान्ते पाञ्चरात्रे च बौद्ध आर्हतके तथा ॥१॥
तस्मात्सर्वासु सञ्ज्ञासु वाच्यैका परमेश्वरी । शब्दशास्त्रे तथान्येषु संहिता मुनिभिस्सुरैः ॥ २॥ इत्यादि
५
मन्त्रोद्धारम्प्रवक्ष्यामि गुप्तद्वारेण केशव । विशेषस्त्ववगन्तव्यो व्याख्यातृगुरुवक्त्रतः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122