Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 57
________________ तृतीयबीजेऽप्यशेषाम्नायानुप्रवेशमाह-यदिति । यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तार्तीयीकमहं नमामि मनसा तद्वीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौःशब्दो गिरि वर्त्तते स नियतं योगं विना सिद्धिदः ॥५॥ समन्वितम् । व्याख्या-तार्तीयीकं = तृतीयम् इन्दुप्रभं = शशाङ्कधवलं तत् = पूर्वनिर्दिष्टं बीजं = ह्सौं इतिरूपं बीजाक्षरम् अहं नमामि । यत् बीजं वाचांप्रवृत्तिकरणे = वचनपाटवकरणे बुधैः = सचेतनैः सद्यो दृष्टप्रभावं = तत्क्षणालोकितोल्लसत्प्रत्ययम् । एकाक्यपि त्रैपुरं तृतीयं बीजं चन्द्रशुभ्रं ध्यातं सत् परमसारस्वतमित्यर्थः । यदि वा अहमिति न विद्यते हकारो यत्र तदहं हकाररहितम् । 'सौं' । एतदपि शारदं बीजं ज्ञेयम् । तदुक्तम् जीवं दक्षिणकर्णेन वाचा चैव समन्वितम् । एतत्सारस्वतं बीजं सद्योवचनकारकम् ॥१॥ जीवं सकारः । दक्षिणकर्णः औकारः । वाचा विसर्गः-इत्यादिसञ्ज्ञाः कौलमातृकातो ज्ञातव्याः । उत्तरार्द्धन सप्रभावं त्रैपुरं बीजान्तरमाह । और्वोऽपि वडवानलोऽपि सरस्वती नाम नदीम् अनुगतो = मिलितो जाड्याम्बुविच्छित्तये = जाड्यजलसंशोषणाय अस्तु = स्यात् । तत्त्वं तु अस्त्वौरिति अस्-तु-औः इति पदत्रयम् । न विद्यते सकारो यत्र तत् अस्, सकारवजितम् । तुः पुनरर्थे । तेन औः इति केवलं सिद्धम् । एतदपि बीजान्तरं ज्ञेयम् । ततश्च वो = युष्माकं सरस्वतीमनुगतः = सारस्वतबीजतां प्राप्तः औरिति जाड्याम्बुविच्छित्तये अस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122