________________
तृतीयबीजेऽप्यशेषाम्नायानुप्रवेशमाह-यदिति ।
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तार्तीयीकमहं नमामि मनसा तद्वीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौःशब्दो गिरि वर्त्तते स नियतं योगं विना सिद्धिदः ॥५॥
समन्वितम् ।
व्याख्या-तार्तीयीकं = तृतीयम् इन्दुप्रभं = शशाङ्कधवलं तत् = पूर्वनिर्दिष्टं बीजं = ह्सौं इतिरूपं बीजाक्षरम् अहं नमामि । यत् बीजं वाचांप्रवृत्तिकरणे = वचनपाटवकरणे बुधैः = सचेतनैः सद्यो दृष्टप्रभावं = तत्क्षणालोकितोल्लसत्प्रत्ययम् । एकाक्यपि त्रैपुरं तृतीयं बीजं चन्द्रशुभ्रं ध्यातं सत् परमसारस्वतमित्यर्थः । यदि वा अहमिति न विद्यते हकारो यत्र तदहं हकाररहितम् । 'सौं' । एतदपि शारदं बीजं ज्ञेयम् । तदुक्तम्
जीवं दक्षिणकर्णेन वाचा चैव समन्वितम् । एतत्सारस्वतं बीजं सद्योवचनकारकम् ॥१॥
जीवं सकारः । दक्षिणकर्णः औकारः । वाचा विसर्गः-इत्यादिसञ्ज्ञाः कौलमातृकातो ज्ञातव्याः । उत्तरार्द्धन सप्रभावं त्रैपुरं बीजान्तरमाह । और्वोऽपि वडवानलोऽपि सरस्वती नाम नदीम् अनुगतो = मिलितो जाड्याम्बुविच्छित्तये = जाड्यजलसंशोषणाय अस्तु = स्यात् । तत्त्वं तु अस्त्वौरिति अस्-तु-औः इति पदत्रयम् । न विद्यते सकारो यत्र तत् अस्, सकारवजितम् । तुः पुनरर्थे । तेन
औः इति केवलं सिद्धम् । एतदपि बीजान्तरं ज्ञेयम् । ततश्च वो = युष्माकं सरस्वतीमनुगतः = सारस्वतबीजतां प्राप्तः औरिति जाड्याम्बुविच्छित्तये अस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org