Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 67
________________ धर्मपुरुषार्थमुक्त्वा कामपुरुषार्थसिद्ध्यर्थं ध्यानविशेषमाह-य इति । ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमामुर्वीञ्चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वरक्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥९॥ व्याख्या हे भगवति ! त्वत्तेजसा = तव शरीरकान्त्या ये = ध्यातारः क्षणम् अपि = क्षणमात्रमपि अनन्यमनसः = एकाग्रचित्ताः सन्तः इमां द्यां = सिन्दूरपरागपुञ्जपिहितां पश्यन्ति = इदमाकाशं सिन्दूररेणुपटलव्याप्तं ध्यानभङ्ग्या प्रत्यक्षमिव विलोकयन्ति । उर्वीञ्च = पृथ्वी च विलीनयावकरसप्रस्तारमग्नामिव = विगलदलक्तबिन्दुमेदुरामिव पश्यन्ति । अनन्यमनस इति पदमुभयत्रापि डमरुकमणिन्यायेन योज्यम् । तेषां = कामरसिकानाम् अनङ्गज्वरक्लान्ताः = कन्दार्तिपीडिताः । त्रस्तकुरङ्गशावकदृशो = वित्रस्तमृगार्भकचञ्चलदृष्टयः स्त्रियो = नायिकाः वश्या भवन्ति = रागपरवशा जायन्ते । भगवतीरूपमात्रस्मरणाधिरूढध्यानपरमकोटिसंटङ्केन शक्तिभेद इत्यर्थः । यदुक्तं कामरूपपञ्चाशिकायां सिदूरारुणतेयं जे जं चिंतइ तरूणसंकासम् । तडितरलतेयभासं आणइ दूरत्थिया नारी ॥१॥ सिन्दूरारुणतेयं, तिक्कोणं बंभगंठिमज्झत्थम् । झाणेण व कुणइ वसं अमरवहूसिद्धसंघायं ॥२॥ अन्यत्राप्युक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122