Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 99
________________ ५८ श्रीत्रिपुराभारतीस्तवः एकाक्षरा मया प्रोक्ता नाम्ना त्रिपुरभैरवी ॥ तथैव मूलविद्या तु नाम्ना त्रिपुरभैरवी ॥ इत्युक्तम्, तदुच्यतामुत्तरं कथमियमिति सत्यम् । बहवो हि अस्या उद्धारप्रकाराः सम्प्रदायाः पूजामार्गाश्च । तथा च नारदीयविशेषसंहितायामुक्तम् वेदेषु धर्मशास्त्रेषु पुराणेष्वखिलेष्वपि सिद्धान्ते पाञ्चरात्रेषु बौद्धे चार्हतके तथा ॥ सुशास्त्रेषु तथाऽन्येषु शंसिता मुनिभिः सुरैः ॥ इत्यादि तथा मन्त्रोद्धारं प्रवक्ष्यामि गुप्तमार्गेण वासवम् । विशेषस्त्ववगन्तव्यो व्याख्यातृगुरुवक्त्रतः ॥ अथ क्वचिन्मन्त्रोद्धारभेदात् क्वचिदासनभेदात् क्वचित्सम्प्रदायभेदात्, क्वचित्पूजाभेदात् क्वचिन्मूर्तिभेदात् क्वचिद्ध्यानभेदाद् बहुप्रकारा त्रिपुरा चैषा - क्व चित् त्रिपुरभैरवी, क्वचित् त्रिपुरभारती, क्वचित् त्रिपुरसुन्दरी, क्वचित् त्रिपुरललिता, क्वचित् त्रिपुरकामेश्वरी, क्वचिदपरेण नाम्ना क्वचित् अपरैवोच्यते । तथा सामान्यविशेषाभ्यां त्रिपुरेयमित्युक्तम् । एषाऽसौ त्रिपुरेत्यादि ॥ १ ॥ इदानीं प्रथमाक्षरस्य विशेषमाहात्म्यमाह या मात्रा त्रपुषीलतातनुलसत्तन्तूत्थितिस्पर्द्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥२॥ अहो भगवति ! तव प्रथमे वाग्भवबीजे ऐंकाररूपे, या मात्रा सदा = नित्यं स्थिता । किंभूता ? त्रपुषीलतातनुलसत्तन्तुस्थितिस्पर्धिनी = त्रपुषीलता चिर्भटिका-विशेषवल्ली तस्यास्तनुः सूक्ष्मोल्लसत्शोभायमानो यस्तनुः पादप्ररोहस्तस्य स्थितिराकृतिस्तां स्पर्धते, तदनुकारं स्पृशन्तीत्येवंशीला सा तथोक्ता । यैरस्माभिश्चराचराणां सृष्टिहेतुर्मुक्तिदानात् सृष्टिरवगता, ते । एवं ज्ञानात् प्रसिद्धा वयं शाक्तेयाऽऽगमविदस्तां मात्रां कुण्डलाकारत्वात् कुण्डलिनीति नाम्ना शक्ति मन्महे । मनु बोधने तुदादिरयम् । किंभूताम् ? विश्वजननव्यापारबद्धोद्यमाम् = विश्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122