Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 113
________________ ७२ श्रीत्रिपुराभारतीस्तवः उपरिस्थं यत् स्तोत्रस्य, तथा उच्चरतामधः । अधःस्थमक्षरं यत् स्यात्, तत् स्यादुपरि जल्पताम् ॥ इति ॥ १. [प्रत्यन्तरेऽत्र कियानधिकः पाठ उपलभ्यते । यथा-'सत्संप्रदायान्वित इति त्रिपुराशब्देन समस्तवाङ्मय-चराचरजगत्-त्रिभुवनोत्पत्तिः एकाराक्षररूपा, क्षेत्रं त्रिरेखामयी योनिरभिधीयते । तथा च 'एषाऽसौ त्रिपुरा' इति जल्पता एकारो योन्याकारत्वेन दर्शितः । तदेषां देवानां त्रितयमित्यादिना ध्यानेन पूजनीया । श्रीखण्डरसादिना यथावदभिलिख्य उपासनीया बोद्धव्या । इत्येष एव उपासनाविधिः । अथ प्रकारान्तरम्-अष्टदलपद्ममालिख्य कर्णिकायां देवी, पत्रेषु अष्टवर्गा मातृका, तस्यामेवाष्टौ लोकपालाः, अष्टौ दिशः, अष्टौ नागकुलानि, आणिमाद्यष्टकम्, विद्याषकम्, कामाष्टकम्, सिद्धाष्टकम्, पीठाष्टकम्, योगिन्यष्टकम्, भैरवाष्टकम्, क्षेत्रपालाष्टकम्, समयाष्टकम्, धर्माष्टकम्, योगाष्टकम्, पूजाष्टकम्, यत्किचिद् अष्टकं तत्सर्वं मातृकाष्टकवर्गकण्ठलग्नसंलीनं ज्ञातव्यम् इति । इष्टार्थिनः कामार्थिनः कवित्वार्थिनः पूजयेयुः । सौभाग्यविभ्रमोर्जितराज्यैश्वर्यार्थिनस्तु कर्णिकायां परस्परसम्बन्धोद्ग्रन्थिस्थितयोनिद्वयकोणान्तराले योनिपतितरेखात्रयनिर्मितोर्ध्वमुखतृतीययोनिसंस्थाने क्रमेण नवयोनिचक्रमालिख्य, यथापूर्वमध्ययोन्यन्तरालभूमौ 'परेभ्यो गुरुपदेभ्यो नमः । अपरेभ्यो गुरुपदेभ्यो नमः । परापरेभ्यो गुरुपदेभ्यो नमः ।' इति गुरुपङ्क्ति प्रपूज्य, योनिमध्ये उड्डीयानम्, दक्षिणकोणे जालन्धरम्, वामकोणे पूर्णगिरिपीठम्, पश्चिमकोणे कामरूपपीठम्-इति पीठचतुष्टयं संपूज्य, मध्ये हसौरिति सदाशिवमभ्यर्च्य, देवी धर्म-ज्ञान-वैराग्यऐश्वर्य-वरदां इति पञ्चकं देव्या मूनि पादावधि विनस्य पूजयित्वा 'हृदयाय नमः, शिरसे स्वाहा, शिखायै वोषट्, कवचाय हुं, नेत्रत्रयाय वषट्, अस्त्राय फट् ।' इति षडङ्गान्यङ्गेषु विन्यस्य पूजियत्वा, एतान्येव योगाङ्गानि देव्याः सन्निधौ बहिः पूर्वादितः अस्त्रं कोणेषु नेत्रमग्रतः पूजयेत् । ततो 'द्राँ द्रीं क्लीं ब्लूं सः'-इति । 'शोषण-मोहन-सन्दीपन-उन्मादन-तापनम्' इति बाणपञ्चकम्, मध्यम-पश्चिमयोन्यन्तरालभूमौ पूजयित्वा, ततो भगा सुभगा भगमालिनी भगसर्पिणी-इति पूर्वादियोनिचतुष्के, अनङ्गा अनङ्गकुसुमा अनङ्गमेखला अनङ्गमदना-इति आग्नेयादिचतुष्के, ऐंकारं प्रणवं कृत्वा, नमोऽन्तं प्रपूज्य, योनिमुद्रां दर्शयित्वा, बहिः पत्रेषु पूजयेत् । यदि वा समस्तजनप्रसिद्धक्रमायातमार्गेण ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही ऐन्द्री चामुण्डा चण्डिका । इति । असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तश्च भैरवः । कपालभीषणश्चैव संहारश्चाष्टमः स्मृतः ॥ इति द्वौ द्वौ एकत्र पत्रे संपूजयेदिति ॥२०॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122