Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 107
________________ श्रीत्रिपुराभारतीस्तवः त्वत्पाद-पद्मपूजार्थम्, बिल्वीदलोल्लुण्ठनात् त्रुट्यत्कण्टककोटिभिः-बिल्वीदलानां = तरुविशेष-पत्राणां उल्लुण्ठनेन = अवचयेन त्रुट्यन्तो = विच्छिद्यमानाः कण्टककोटयस्ताभिः समं परिचयं = तत्पाटने नित्याभ्यासं न ययुः । अत्र कोटिशब्देन अग्रनखाः संख्या वोच्यते । ते = बुधा एवंविधैः चक्रवर्तिचिह्ननिवहवाहिभिः करैरुपलक्षिताः पृथिवीभुजो = भूपालाः कथमिव भवन्ति, अपि तु न कथञ्चित् । इवशब्दोऽत्र वाक्यालङ्कारे । तथा किरातार्जुनीये 'कथमिव तव सन्ततिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य' तान्येव सार्वभौमचिह्नान्याह-दण्डाङ्कशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैरम्भोजप्रभैश्च । तथा रघुकाव्ये'ते रेखाध्वजकुलिशातपत्रचिह्नः सम्राजश्चरणयुगं प्रसादलभ्यम् ॥१३॥ इदानीं चतुर्वर्णानां पूजाधिकारेण चिन्तितसिद्धिमाहविप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वैक्षवै-, स्त्वां देवि! त्रिपुरे! परापरकलां सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां येषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विरविघ्नीकृताः ॥१४॥ अहो देवि त्रिपुरे ! येषां = ब्राह्मणादीनां चतुर्वर्णानाम्, मनः = अन्तःकरणं चित्तम्, यां यां दुर्लभां सुलभां वा सिद्धि प्रार्थयते अभिलषति । तर्हि ते चलचित्ता भविष्यन्तीत्याह-स्थिरधियां त्वद्भक्तिदृढमतीनाम् । ते = विप्रादिवर्णाः, ध्रुवं = निश्चितं तरसा = वेगेन, तां तां पूर्वाभिलषितां अर्थसिद्धि प्राप्नुवन्ति लभन्ते । ननु अन्तरायाः कथं नोत्पद्यन्ते इत्याह-विनैः प्रत्यूहव्यूहैरविघ्नीकृताः = त्वत्प्रसादादनुपहताः । तमेव वर्णानुक्रमाह-विप्रा इत्यादि । विधिवत्पूजनविधौ विप्राः ब्राह्मणाः क्षीरेण, क्षोणीभुजः क्षत्रियाः आज्येन, वैश्या मधुना, तदितरे शूद्रा ऐक्षवेण इक्षुरसेन च त्वां = भवती सन्तर्पयित्वा । किंभूताम् ? परा उत्कृष्टाम्, तथा परापरकलां परतः शक्तिम् ॥१४॥ इदानीं परमैश्वर्या अर्वाचीनपराचीनावस्थामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122