Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१०
अर्थसारत्वाज्जगतोऽतः पुरुषार्थसारामर्थसिद्धिमाह-चञ्चदिति ।
चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीत्रजं ये त्वां चेतसि त्वद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ति श्रियः ॥१०॥
व्याख्या हे भगवति ! ये = पुमांसः क्षणमपि = निमेषमात्रमपि त्वद्गते चेतसि = त्वन्मये चित्ते चञ्चत्काञ्चनकुण्डलाङ्गदधराम् = देदीप्यमानसौवर्णकुण्डलबाहुरक्षकाम् । तथा आबद्धकाञ्चीत्रजं = निबद्धमेखलां देवी = भगवतीं त्वां स्थिरां कृत्वा = स्थिरतया निवेश्य ध्यायन्ति = स्वात्मानं तन्मयतया स्मरन्ति तेषां = निस्तुषभागधेयानां वेश्मसु = गृहेषु विभ्रमात्
औत्सुक्येन अहरहः = दिने दिने स्फारीभवन्त्यः = विस्तारं प्राप्नुवन्त्यः उत्तरोत्तरं वर्द्धमानाः माद्यत्कुञ्जर-कर्णतालतरलाः = मदोन्मत्तगजकर्णचञ्चलाः श्रियो = लक्ष्म्यः चिरं = चिरकालं स्थैर्यं भजन्ति = स्थिरीभूय तिष्ठन्ति । पीतध्यानस्य लक्ष्मीमूलत्वात्, यदुक्तं मागधीभाषायाम्
झलहलयतेयसिहिणा कालानलकोडिपुंजसारिच्छा । झाइज्जइ नासग्गे पाविज्जई सासया रिद्धी ॥१॥ बंभकुडिये कुम्मो पीडिज्जतो वि कणयसंकासो । थंभई जलजलणं तुरगगयचक्कभाविदो नूणं ॥२॥
अतस्तप्तकाञ्चनसत्त्वस्य ध्यानान्निरवधिनिधिसमृद्धिभाजनं ध्याता भवतीति दशमवृत्तार्थः ॥१०॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122