SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १० अर्थसारत्वाज्जगतोऽतः पुरुषार्थसारामर्थसिद्धिमाह-चञ्चदिति । चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीत्रजं ये त्वां चेतसि त्वद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ति श्रियः ॥१०॥ व्याख्या हे भगवति ! ये = पुमांसः क्षणमपि = निमेषमात्रमपि त्वद्गते चेतसि = त्वन्मये चित्ते चञ्चत्काञ्चनकुण्डलाङ्गदधराम् = देदीप्यमानसौवर्णकुण्डलबाहुरक्षकाम् । तथा आबद्धकाञ्चीत्रजं = निबद्धमेखलां देवी = भगवतीं त्वां स्थिरां कृत्वा = स्थिरतया निवेश्य ध्यायन्ति = स्वात्मानं तन्मयतया स्मरन्ति तेषां = निस्तुषभागधेयानां वेश्मसु = गृहेषु विभ्रमात् औत्सुक्येन अहरहः = दिने दिने स्फारीभवन्त्यः = विस्तारं प्राप्नुवन्त्यः उत्तरोत्तरं वर्द्धमानाः माद्यत्कुञ्जर-कर्णतालतरलाः = मदोन्मत्तगजकर्णचञ्चलाः श्रियो = लक्ष्म्यः चिरं = चिरकालं स्थैर्यं भजन्ति = स्थिरीभूय तिष्ठन्ति । पीतध्यानस्य लक्ष्मीमूलत्वात्, यदुक्तं मागधीभाषायाम् झलहलयतेयसिहिणा कालानलकोडिपुंजसारिच्छा । झाइज्जइ नासग्गे पाविज्जई सासया रिद्धी ॥१॥ बंभकुडिये कुम्मो पीडिज्जतो वि कणयसंकासो । थंभई जलजलणं तुरगगयचक्कभाविदो नूणं ॥२॥ अतस्तप्तकाञ्चनसत्त्वस्य ध्यानान्निरवधिनिधिसमृद्धिभाजनं ध्याता भवतीति दशमवृत्तार्थः ॥१०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy