SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ज्ञानदीपिकावृत्तिः इत्यादयस्त्रिपुराविशेषाः कविहस्तमल्लोक्तास्त्रिपुरासारसमुच्चयाज्ज्ञेयाः । , यदि वा सरु इति सविसर्गं पदं, रेफमूलत्वाद्विसर्गाणाम् तेन ह्सौः इति सविसर्गं पदमाम्नायान्तरे ज्ञेयम् । अथ किमेषा त्रिपुरा उत त्रिपुरभैरवी । यथोत्तरषट्कशास्त्रे - त्रिपुरामुद्दिश्योद्धारः कृतः अथातः सम्प्रवक्ष्यामि सम्प्रदायसमन्वितम् । त्रैलोक्यडामरं तन्त्रं त्रिपुरावाचकं महत् ॥१॥ पुनस्तत्रैव पूर्वोक्तं यन्त्रमालिख्य त्रिपुरावाचकं महत् । अथातः सम्प्रवक्ष्यामि त्रिपुरायोगमुत्तमम् ॥२॥ पञ्चरात्रशास्त्रे त्रिपुरा त्रिपुरेति श्रूयते । तत्त्वसागरसंहितायाञ्चैतैर्बीजाक्षरैस्त्रिपुरभैरवी कथिता । यथा वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं बीजसञ्ज्ञं स्यात्तद्धि सारस्वतं वपुः ॥१॥ एषा देवी मयाख्याता नित्या त्रिपुरभैरवी । एषा सा मूलविद्या तु नाम्ना त्रिपुरभैरवी ॥२॥ तत्कथमित्याह । सत्यम्, बहवोऽस्या उद्धारप्रकाराः सम्प्रदायाः पूजा मार्गाश्च । तथा च नारदीयविशेषसंहितायामुक्तम् वेदेषु धर्मशास्त्रेषु पुराणेष्वखिलेषु च । सिद्धान्ते पाञ्चरात्रे च बौद्ध आर्हतके तथा ॥१॥ तस्मात्सर्वासु सञ्ज्ञासु वाच्यैका परमेश्वरी । शब्दशास्त्रे तथान्येषु संहिता मुनिभिस्सुरैः ॥ २॥ इत्यादि ५ मन्त्रोद्धारम्प्रवक्ष्यामि गुप्तद्वारेण केशव । विशेषस्त्ववगन्तव्यो व्याख्यातृगुरुवक्त्रतः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy