SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीत्रिपुराभारतीस्तवः दिवसे स्थिता = वर्तमाना । उष्णांशोः = सूर्यस्य द्युतिः = कान्तिरिव । हृदये सुवर्णवर्णा भगवतीति सामान्यरीत्या प्रथमवृत्तार्थः । विशेषतश्चास्मिन् वृत्ते सामान्यविशेषाभ्यां त्रिपुराया मन्त्रोद्धारोऽस्ति, वक्ष्यते च प्रान्ते विशे काव्ये बोद्धव्या निपुणं बुधैः स्तुतिरियं यत्राद्यवृत्ते स्फुटम् । इति, मन्त्रोद्धारविधिर्विशेषसहितः सत्सम्प्रदायान्वितः ॥ इत्यादि च । स एव मन्त्रोद्धारः प्रकाश्यते यथा प्रथमपादे यत्प्रथममक्षरं तत्प्रथमबीजम्(ऐङ्कारः)द्वितीयपादे द्वितीयमक्षरम्(क्ली कारः) तृतीयपादे तृतीयमक्षरम् (सौ) तदपि हस्थितं हकारोपरि स्थितमिति सौ जातं, हस्थितमिति विशेषणं पुनरावृत्या व्याख्यातम्, हकारेण बिन्दुना स्थितं निष्ठितं । कौलमते हि हकारो गगनमुच्यते, गगनञ्च शून्यं बिंदुरित्येकार्थमेव । इसौं सौं इति वा-इति तृतीयबीजाक्षरं त्रिपुरामूलमन्त्रो ज्ञेयः । ध्यानविभागोऽप्यत्रैव । आदिमं बीजं ललाटे पञ्चवर्णं, द्वितीयं शीर्षे श्वेतवर्णं, तृतीयं हृदये पीतवर्णं ध्येयम् । किञ्च सहसापदैरिति विशेषो ज्ञेयः । सह हकारसकाराभ्यां वर्तते इति सहसा बीजत्रयमपि सकारहकारयुक्तं स्हें स्क्लीं स्ह्सों इत्यादि विशेषो ज्ञेयः । तथा सर्वतः इत्यत्रापि विशेषोऽस्ति सरु-इति विभक्तं पदम् अतोऽस्माल्ललाटदनन्तरं शिरसि (क्ली कारः) सरु-इति क्रियापदविशेषणम् । सह रुणा रेफेण वर्तत इति सरु, उकार उच्चारणार्थः । एतेन क्ली कारेऽधो रेफः सिद्धः । सकारहकारसंयोगश्च पूर्वमेवोक्तस्तेन 'स्हक्ली ' इति कूयक्षरः सिद्धः । यदुक्तम् कान्तान्तवान्ताकुललान्तवामनेत्रान्वितं दण्डिकनीलनादम् । षट्कूटमेतत्रिपुरार्णवोक्तमत्यन्तगुह्यं शिव एव साक्षात् ॥१॥ कान्तं भवान्तं च कुलान्तवामनेत्रान्वितं दण्डिकुलं सनादम् । षट्कूटमेतत्रिपुरार्णवोक्तमत्यन्तगुह्यं शिव एव साक्षात् ॥२॥ इति पाठान्तरम् । Jain Education International Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy