________________
श्रीत्रिपुराभारतीस्तवः
ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ॥ एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहःस्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥१॥
• श्रीसोमतिलकसूरिविरचिता ज्ञानदीपिका व्याख्या .
व्याख्या-ऐन्द्रस्येवेति । एषा = प्रत्यक्षा, असौ = अप्रत्यक्षरूपा त्रिपुरा देवी, नः = अस्माकम्, अघं = पापं दुःखं वा छिन्द्यात् = विनाशयेदिति सम्बन्धः "अघः दुःखे च पापे च" इत्यनेकार्थवचनात् । किविशिष्टा देवी ? वाङ्मयी = वचनरूपताम्प्राप्ता । अन्यच्च ज्योतिर्मयी = अनिर्वचनीयतेजोरूपेत्यर्थः । अनेन गुरुमुखे प्रत्यक्षा ज्ञानरूपत्वादग्दृशामप्रत्यक्षा चेत्युभयरूपपरमशक्तिध्यानेन दुःखपापच्छेदस्तज्ज्ञानां सुलभ एव । कथं ? सहसा = अप्रतर्कितमेव । लयो हि ज्ञानकारणमुच्यत इत्युक्तेः । कैः कारणभूतैः ? त्रिभिः पदैः विशेषणभूतैः । कि कुर्वती ? ऐन्द्रस्य = इन्द्रसम्बन्धिनः शरासनस्य = धनुषः इन्द्रधनुष इव हरितपीतसितासितमाञ्जिष्ठरूपपञ्चवर्णां प्रभां = कान्ति दधती = धारयन्ती । कथं ? मध्येललाटं = "पारेमध्येऽग्रेऽन्तः पष्ठ्या च" इति सूत्रेण विकल्पेन कर्मत्वम् । सर्वाङ्गस्य तेजोमयत्वेऽपि ललाट एव पञ्चवर्णोल्लासः । अन्यच्च शिरसि = मस्तके अनुष्णगोरिव = चन्द्रस्येव सर्वतः = समन्तात् शौक्लीं = शुक्लरूपां "तस्येदम्" इत्यण् प्रत्ययः, कान्तिमातन्वती = विस्तारयन्ती शुक्लः पटगुणस्तस्येयं शौक्ली एवमादेरणो व्युत्पत्तिः । दशमद्वारे पूर्णशशाङ्कधवलकान्तिरित्यर्थः । अन्यच्च हृदि = हृदयकमले सदाहःस्थिता सदा अह्नि =
१. अस्मिन् काव्ये समाप्तिपर्यंत शार्दूलविक्रीडितमेव वृत्तम् । २. वृद्धिरिति पाठो युक्तोऽवगम्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org