________________
श्रीत्रिपुराभारतीस्तवः इत्यतः क्वचिन्मन्त्रोद्धारभेदात्, क्वचिदासनभेदात्, क्वचित्सम्प्रदायभेदात्, क्वचित्पूजाभेदात्, क्वचिन्मूर्तिभेदात्, क्वचिद्धयानभेदाद् बहुप्रकारैषा त्रिपुरा क्वचित् त्रिपुरभैरवी, क्वचित्रिपुरभारती, क्वचिन्नित्यत्रिपुरभैरवी, क्वचित्रिपुरललिता क्वचिदपरेण नाम्ना क्वचित् त्रिपुरैवोच्यते । सर्वप्रकारेण फलदा सैव भगवती । यदाहुः
न गुरोः सदृशो दाता न देवः शङ्करोपमः । न कौलात्परमो योगी न विद्या त्रिपुरापरा ॥१॥ न पल्याः परमं सौख्यं न वेदात्परमो विधिः । न बीजात्परमा सृष्टिर्न विद्या त्रिपुरापरा ॥२॥ दर्शनेषु समस्तेषु पाखण्डेषु विशेषतः । दिव्यरूपा महादेवी सर्वत्र परमेश्वरी ॥३॥
अथ त्रिपुराया जाप-होम-पूजा-साधन-ध्यान-न्यास-क्रिया-फलादिकं पृथक्पृथक् शास्त्रेभ्यो ज्ञेयम् । यदाहुस्तत्तद्ग्रन्थेषु
न जापेन विना सिद्धिर्न होमेन विना फलम् । न पूजावर्जितं सौख्यं मन्त्रसाधनकर्मणि ॥१॥ न ध्यानेन विना सिद्धिनं न्यासेन विना जपः । न क्रियावर्जितो मोक्षो मन्त्रसाधनकर्मणि ॥२॥ यत्नेन सर्वं गुह्यमेकमुष्टया प्रदेयं गुरुभिरिति प्रथमश्लोकार्थः ॥१॥
भाषा-ऐन्द्रस्य-शरासनस्य-इव= वर्षासमय में प्रकट हुए इन्द्रधनुष के समान प्रभाम्= हरित पीत धवल श्याम रक्त आदि विचित्र कान्ति को दधती मध्येललाटम्= ललाट के मध्य भाग में धारण कर रही । और शिरसि= मस्तक में अनुष्णगोः इव शरत्काल के चन्द्रमा के समान शौक्लीं कान्तिम् शुक्ल कान्ति को सर्वतः = सर्व दिशाओं में आतन्वती = विस्तार रही और हदि= हृदयकमल में
१. (न शान्तः परमं ज्ञानं न शान्तः परमो भयः । न कौलात् परमो योगी न विद्या त्रिपुरापरा) . इत्यधिकं जि० पुस्तके । २. यतो न । इति जि० पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org