Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 52
________________ ३ अज्ञानोच्चारितस्याप्येतस्य बीजस्य प्रभावातिशयमाह दृष्ट्वेति । दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं येनाकूतवशादपीह वरदे ! बिन्दुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवानुग्रहे वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्राम्बुजात् ' ॥३॥ = व्याख्या - हे वरदे = मनोऽभिलषितवरदानदक्षे ! इह जगति सम्भ्रमकारि = आश्चर्यकारणं वस्तु = पदार्थं सहसा अकस्मात् दृष्ट्वा विलोक्य येन केनापि पुरुषेण आकूतवशादपि = भयाभिप्रायादपि बिन्दुं विनाप्यक्षरम् = अनुस्वारवर्जितमक्षरं व्याहृतम् = उच्चारितं तस्यापि = 'ऐऐ' इत्युच्चारकस्य पुरुषस्य ध्रुवमेव निश्चितमेव हे देवि = भगवति ! तरसा = बलेन विद्यापाठं विनापि तवानुग्रहे = त्वत्प्रसादे जाते सति ध्यातुः वक्राम्बुजात् = मुखकमलात् सूक्तिसुधारसद्रवमुचः = अमृतरसनिर्यासरूपा वाचो निर्यान्ति = निःसरन्ति । सार्थकत्वाद्वचनानाममृतोपमानत्वम् । यद्यपि रसद्रवयोरेकार्थता तथाप्यत्र विशेषो अमृतं हि देवानां भोज्यं रसरूपमेव भवति तस्यापि द्रवः सारोद्धारो निर्यास इत्यर्थः । अयमभिप्रायः - प्राणी यदि किमपि अपूर्वपदार्थावलोकेऽपि सम्भ्रान्तचेताः ऐ इत्यक्षरमुच्चारयाति । एतावद्बीजाक्षरोच्चारण-सन्तुष्ट - भगवती - प्रसादादविरल- विगलदमृत - लहरी - परीपाक-पैशल - वाणी - विलासाः प्रसरन्तीति तृतीयवृत्तार्थः ||३|| - Jain Education International - १. वक्रोदरात्, इत्यपि पाठः, तस्यार्थस्तु मुखमध्यात्-इति । For Private & Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122