Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 54
________________ द्वितीयबीजाक्षरेऽप्यंशगतं बीजान्तरमाह-यदिति । यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥ व्याख्या-यदिति । हे नित्ये = सकलकालकलाव्यापिशाश्वतरूपे भगवति ! यत्तव = भगवत्याः अपरं = द्वितीयं मन्त्राक्षरं कामराजं = कामराजनामकं क्लींकाररूपं तदपि निष्कलं शुद्धकोटिप्राप्तं तत् = बीजं सारस्वतमिति भुवि = पृथिव्यां कश्चिदेव विरलो बुधः = विचक्षणो अवैति = वेत्ति जानाति विचारयति । प्रसिद्धमपि बीजं विरलो जानातीति कथने कवेरिदमाकूतम् । निष्कलमिति निर्गतककार-लकाराक्षरम् तेन ई इति प्रसिद्धम्, अपरमिति च अपगतरेफमाम्नायान्तरे ज्ञेयम् । ईदृशञ्चैव गूढाक्षरं विरल एव वेत्ति । यतः शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्त्रेषु ज्ञाता भवति वा न वा ॥१॥ इति वचनात् अस्यैवाक्षरस्य व्यवस्थापकमाह । यत् = मन्त्राक्षरं प्रतिपर्व अमावास्यायां पूर्णिमायां वा सत्यतपसो = नाम ब्रह्मर्षेः आख्यानं = दृष्टान्तं कीर्तयन्तो = सभा बन्धेन व्याख्यानयन्तः द्विजाः = ब्राह्मणाः प्रारम्भे = कथाकथनप्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति = प्रणवः ॐकारस्तस्यास्पदं स्थानं तत्र प्रणयः सम्बन्धः सोऽस्यास्तीति मत्वर्थीयप्रत्ययानन्तं पदं तद्भावस्तत्ता । यदेवाक्षरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122