________________
द्वितीयबीजाक्षरेऽप्यंशगतं बीजान्तरमाह-यदिति । यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥
व्याख्या-यदिति । हे नित्ये = सकलकालकलाव्यापिशाश्वतरूपे भगवति ! यत्तव = भगवत्याः अपरं = द्वितीयं मन्त्राक्षरं कामराजं = कामराजनामकं क्लींकाररूपं तदपि निष्कलं शुद्धकोटिप्राप्तं तत् = बीजं सारस्वतमिति भुवि = पृथिव्यां कश्चिदेव विरलो बुधः = विचक्षणो अवैति = वेत्ति जानाति विचारयति ।
प्रसिद्धमपि बीजं विरलो जानातीति कथने कवेरिदमाकूतम् । निष्कलमिति निर्गतककार-लकाराक्षरम् तेन ई इति प्रसिद्धम्, अपरमिति च अपगतरेफमाम्नायान्तरे ज्ञेयम् । ईदृशञ्चैव गूढाक्षरं विरल एव वेत्ति । यतः
शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्त्रेषु ज्ञाता भवति वा न वा ॥१॥ इति वचनात्
अस्यैवाक्षरस्य व्यवस्थापकमाह । यत् = मन्त्राक्षरं प्रतिपर्व अमावास्यायां पूर्णिमायां वा सत्यतपसो = नाम ब्रह्मर्षेः आख्यानं = दृष्टान्तं कीर्तयन्तो = सभा बन्धेन व्याख्यानयन्तः द्विजाः = ब्राह्मणाः प्रारम्भे = कथाकथनप्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति = प्रणवः ॐकारस्तस्यास्पदं स्थानं तत्र प्रणयः सम्बन्धः सोऽस्यास्तीति मत्वर्थीयप्रत्ययानन्तं पदं तद्भावस्तत्ता । यदेवाक्षरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org