Book Title: Tilakmanjari
Author(s): Dhanpal Mahakavi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 325
________________ शान्त्याचार्य-शानेकलश-विरचितम् शा०टि० शैलूस्य नटस्य महावातिकः मन्त्रवादी । धातुवादिकः रसवादी । सर्वदासत्वे [स्थिता] कृता' वस्थितिः, या सर्वेषां दासत्वे विहितव्यवहारा, सत्यमुक्ता चासतीसहिता सा कथम् अजातस्वैरिणासङ्गाऽभूतकुलटा ? अन्यत्र सर्वदा सत्त्वे कृतावस्थाना अनृतरहिता च । निरपत्या, या अपत्यरहिता सा कथं लालितापत्या ? अन्यत्र लालिता पालिता', केन ? पत्या भा । सुरापगेति मद्यनदीति, यद्वा मद्यपगामिनीति, परभागं शोभाम् । 'प्रीतिप्रतिपक्षभूता प्रीतिशत्रुभूता । अधिकमलं बहुतरदोषम, अन्यत्र पद्ममाश्रित्य । रेणुः धूलिः, अन्यत्र गौरी । गत्यभावेन निर्वाहाभावेन गमनाभावेन च । वेला' उङ्गुलिखण्डन समुद्रपर्यन्तभूमिश्च । निशि तमसि रात्रावन्धकारे, पट्ट फलकम् , अन्यत्र निशितं तीक्ष्णम् , असिपर्ट खगलताम् । शालीनस्मितं सलज्जेषद्धास यत् तत् कथम् अस्मिताञ्चितपदन्यासम् अनीषद्धासप्रशम्यक्रमनिक्षेपम् ? अत्यत्र 'अस्मि'-इत्येतस्प भावोऽस्मिता अहङ्कारः, तेनाञ्चितपदम् । स्वादिष्ठा मधुरतमा । ६) उदानः ऊर्ध्ववातः । त्रिशकुः चाण्डालविशेषः । कृष्णद्वैपायननिव व्यासमिव; युधिष्टिरेण, महत्त्वेन माहात्म्येन, जनितबहुमानम् , विशेषणानि समानानि । चरणाः अध्ययनविशेषाः पादाश्च । अक्षमाला बिभीतकराजिः, अक्षसूत्र च° । ब्रह्मसूत्र प्रजापतिसूत्रण' यज्ञोपवीत च । विधिः विधाता, चथावच्च । अनवद्यप्रमाणां प्रशस्यमानां, प्रशस्थप्रत्यादिप्रमाणां च । दृष्टिः दर्शनं, चक्षुश्च । भूताः. प्रेताः, सत्त्वाश्च । अङ्गलक्ष्मी शरीरशोभां, दाद्वशङ्गानि च । ताटिक कलहंस० विलासा एव हंसाः । 'सौभाग्यं सद्गमनसन्निरीक्षणसज्जल्पनमिति लावण्यम् । स्पृहणीयो रतिसुखदः स्पर्शगुणो भवति सौभाग्यम् ॥' जातरूपम् सुवर्णम् । महावातिकस्य गारुढिकस्य । धातुवादिकस्य रसवानिः । विकसत् विस्तरत् । स्वैरिणी० [स्वैरिणीभिः ।] लालिता पत्या भर्ना लालिता । सुशवगा सुराप गच्छन्तीति ते सुरापगाः । भङ्गिः विच्छित्तिः । कलयापि लेशेनापि । दरिद्रमध्यलरणि लध्वी । स्वादिष्टोक्तिः प्रधानोक्तिः ।। ६) याममात्रे सञ्जातप्रथमपहरे । विटङ्कः कपोतपाली० । आपतन्तम् विद्याधर (1) BC कृतस्थितिः ; B1 drops tiie tast portion from या चा...upto कृतावस्थाना. (2) Cadds केता after पालिता. (3) BSC drop प्रति. (4) B1 पद्मा श्चित्त्य. (5) C drop ग. (6) B1 drops च. (7) BC अंगुली. (8) Br drops न्यासं. (9) BSC drop च । ब्रह्मसूत्र. (10) B' drops a. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474