Book Title: Tilakmanjari
Author(s): Dhanpal Mahakavi
Publisher: L D Indology Ahmedabad
View full book text
________________
३०६
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा.टि. १६५) स्थूलोच्चयेन मध्यमगत्या । मल्लिकाक्षाः हंसाः । अर्णः जलम् । 'लामञ्जकं मृणालम् । 'कुक्कुहः पक्षिविशेषः । पिच्छिलेन विलफिलेन । कसेरुः कन्दविशेषः । कोल: सूकरः ॥
१६६) प्रचलाकी मयूरः । खञ्जरीटः चटकविशेषः । आलीढः आस्वादितः । दात्यूह: जलपक्षी । घनसारः कर्परः । अम्भोधिमयनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगर' च एकत्र 'सुरभिगावीपारिजातवृक्षोत्थानचारु, उद्गतविषं च; अन्यत्र सुगन्धिपारिजातकुसुमशोमनम् , उद्गच्छत्तगरवृक्ष च । त्र्यम्बकोत्तमाङ्गमिव पतत्रिमार्गाङ्कितमध्यमानीलनागलतावन
बालपूगं' च एकत्र पतद्गङ्गाचिहूनितमध्य, कृष्णफणिलताबद्धकेशसङ्घात च ; अन्यत्र पक्षिपथाङ्कितमध्यम् , आनीलनागवल्लीश्लिष्टबालपूगवृक्षं च । कामिनीकपोलतल मिव पत्रलतालीकृत च्छायमुद्यन्मधूकधवल च एकत्र पत्रवल्या सखीविहितशोभं, विकसन्मधूककुसुमगौर च ; अन्यत्र पर्णवत्तालीतरुकृतातपाभावम् , उद्गच्छन्मधूकधवादायिन' च । आपानगोष्ठीबन्धमिव मधुकरकामोदितमामत्तमधुपमण्डलीमुखरित च एकत्र मद्यवाघटिकामोदवत्", ईषत्क्षीयमद्यपगोष्ठीप्राप्तमुखरत्वं च ; अन्यत्र 11भ्रमरानङ्गरुत क्षीबभ्रमरसङ्घातमुखरित च । कश्मीरमण्डल
-
ता०टि० १६५) स्थूलोच्चयः करिमध्यमगतिः । ब्रह्मोपः वेद-[पाठः]; यदने-[कार्थः-] 'ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ऋत्विग्योगविदोश्चापि ...' ६।२५.९] अत्र ब्रह्मः वेदः । मल्लिकाः हसविशेषैः । अर्णः जलम् । रङ्कुः मृगः । सङ्कुलेन सरस्तीरेणेति सम्बन्धः । लामञ्जकः कन्दविशेषः । पुज्यमान० बहुलीभवन् । कुक्कुहः कुम्भकारकृव कुटः । पिच्छिलेन सदमेन । लवलीलता कपूरद्रुमः । पत्ररथा: पक्षिणः । सिकतिलं वालुकाकुलम् । प्राचा पूर्वदिग्भागवर्तिना ।।
१६६) शकुलः मत्स्यः । अवाकचञ्चुकृतजलप्रपात० अवाक् अधोमुखचचुभिः कृतोऽम्बुपातो यैः । वज्जुल: पक्षिविशेषः । ताण्डव नृत्तम् । प्रचलाकिमण्डल' मयूरसमूहः । नेदिष्ट निकटम् अधिष्ठान पत्तनम् । अम्बुगर्भभारेण अम्बुरूपो यो गर्भः तस्य [भारेण । अभ्रं मेघः । मातुलिङ्ग बीजपूरम् । आपीन० आसमन्तात् स्थूल० । आपीड० शिखर० ।
(1) C लोमंजक (2) BI कुक्कुटः; the reading कुक्कुहः is supported by the Ms. trading ofthe TM, and is, therefor, outhetic. (3) B1 विजिविलेन. (1) BC गार्वा ०. (5) BCS ०च्छंगर', dropping °त्त०. (6) BCS Oमागांधित ०. (7) BC ०यूगं. (8) BI वेल्या. (9) B1 मधूकावदातम्. (10) B1 drops मोद.. (11) B' भ्रमरानाङ्गमङ्गरुत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474