Book Title: Tilakmanjari
Author(s): Dhanpal Mahakavi
Publisher: L D Indology Ahmedabad
View full book text
________________
३११
तिल कमा रीटिप्पनकद्वयम्
शाटि० १७३) वधूलोचनयुगमिव कृष्णतारोचितम् एकत्र कालतारिकायोग्यम् , अन्यत्र इयामत्वशोभितम् । विन्ध्याचलमिव धवलताकान्तम् एकत्र धवतरुचम्पकादिलत व्याब्तम् , अन्यत्र शुभ्रताव्याप्तम् । सुग्रीवमिव 'कपिशतान्वितम् वानरशतयुक्तम्, अन्यत्र पीतत्वयुक्तम् । दशामिव नीललोहितप्रभावाप्तश्रियम् एकत्र शङ्करप्रभावप्राप्तलक्ष्मीकम् , अन्यत्र कृष्णरक्त तेजःप्राप्तशोभम् । विजयाधशैलमिव मालिकात्रयमनोहरम् उभयत्र भूमिकात्रयमनोहरम् , विजयाधः वैताठ्यः । पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम् एकत्र परिपूर्णचन्द्रसूर्यशोभितम् , अन्यत्र कलशसहितमञ्जरीकिरणराजितम् । विपिनमिव कपोतपालीकलितम् एकत्र कपोतपक्षिपक्तियुक्तम् , अन्यत्र -विटङ्कसहितम् । उल्लसितकोमलार्करोचिषं शिशिरम् विस्फुरितसुकुमारादित्यकिरणं शिशिरमासमित्र, अन्यत्र प्रसृतमनोज्ञस्फटिकरश्मिकम् । उद्दामकुसुमप्रकरशोभन सुरभिं वसन्तमित्र उद्भटपुष्पप्रकरमनोज्ञम् ; उभयत्र तुल्यम् । आसन्ननभस' 'शुचिम् आषाढमिव; कीदृशम् ? सन्निहितश्रावणम् ; अन्यत्र सन्निहिताकाशम् । शिखरशाला शिरोगृहम् ॥
ता०टि. १७२) रेखारन्ध्र० अक्षराणामेव । प्राञ्जलतया ऋजुतया । भङ्गः ऊर्मिभेदश्च; यदनेकार्थः-] 'भङ्गस्तरङगे भेदे च रुग्विशेषे पराजये' [२।३९]; धर्मपक्षे भङ्गाः दानशीलतपोभावनादयः । त्रिविष्टप स्वर्गम् । उभयथापि पट्टबन्धः इदमपि दृष्ट, किमन्येनासारेण वस्तुनावलोकितेनेति । आभ्यां कृत्वा मया जगत्सारभूत वस्तु दृष्टमिति, इति द्विविधमपि पट्ट. वन्धुयोग्यत्वं लोचनयोः। अवदात शुद्धम् । दृषदा स्त्रीलिङ्गः [शब्दोऽयम् ] !
१७३) संभ्रमः ८आदरः; यदने कार्थः -] 'संभ्रमो भीतौ संवेगादरयोरपि' [३।५०४] । कलकण्ठ: यदने-कार्थः-] कलकण्ठः पिके पारापते हंसे कलध्वनौ' [४।६९]; अत्र हंसे । यामिनीपति: इन्दुः । कृष्णतारोचित श्यामत्वं; तारा कनीनिका; उचित विदितं ; मठमिति सम्बन्धः । धवलता शुक्लत्वम् । कपिः हरिः, पिङ्गलश्च । नीललोहित: ईशः । मालिकात्रय मालिका उपर्युपरि भूमिकात्रयम् । कपोतपाली विटङ्कः ; कपोताः पक्षिविशेषास्तेषां श्रेणिः [च] । नभः व्योम, श्रावणश्च । शुचिम् आषाढम् ।।
१७४) उत्कृष्टवसनधारिण गन्धर्वकमपश्यदिति सम्बन्धः । मानसहरिण० चित्तार्ना हरिणत्वं चश्चलत्वात् । वह क्रियापदम् ।।
१७५) अभिवृष्टिः आसिक्तः ।।
(1) B1 कवि०. (2) BCS drop विटङ्क...... मासभिव, अन्यत्र. (3) BCS drop क०. (4) Bi ०शुचम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474