Book Title: Tilakmanjari
Author(s): Dhanpal Mahakavi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 411
________________ Appendtx-C 72. प्रागल्भ्येन स्वभावमधुराः सर्वजनहृदयहारिणः क्षणमात्रपरिचितेऽपि जने जनितविश्रम्भाः कस्य नाम न विस्मयमावहन्ति, कं वा विधेयं न कुर्वन्ति अपूर्वाभिभंगिभिरुद्भासिताः पदे पदे...विनोदकथालापाः । 157.20ff. 73. फलाभिलाषिणा पुरुषेण नैकान्ततो नीतिनिष्ठेन भवितव्यम् । अभिमने वस्तुनि दैवं प्रमाणीवृ.त्य सर्वात्मना प्रवर्तितव्यम् । 90. 10ff. 74. यदेव गुरवः किंचिदादिशन्ति, यदेव कारयन्ति कृत्यमकृष्य वा, तदेव निर्विचार कर्तव्यम् । विचारो हि तद्वचनेष्वनाचारो महान् । 175.11 ff. 75. यद्यपि सुचिरकालसंचितेन सततानुगाभिना सद्भुत्येनेव शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूर वर्तिन्येव दुरितानि, तथापि नीतिरनुसतव्या । 35.20ff. 76. वन्द्यास्तेकवयः काव्यपरमार्थविशरदाः । विचारयन्ति ये दोषान्गुणांश्च गतमत्सराः 1. 20ff. 77. वर्णयुक्तिं दधानापि स्निग्धांजनमनोहराम् । नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्नुते । 2. 11ff. 78. वामचारिण्यत्र मार्गमृग इवाध्वगा नाधिगच्छन्ति वांछितानि व्यापारितसकलसामा अपि फलार्थिनः । 65.11ff. 79. वार्योऽनार्य स निर्दोषे यः काव्याध्वनि सर्पताम् । अग्रगामितयाकुर्वन्विघ्नमायाति सर्पताम् । 1.23ff. 80. विवेकिना विचारणीयं वस्तुतत्वम् । नोडिझतव्यो निजावष्टम्भः । स्तम्भनीयं मनः प्रसरदपथे, न देयम ग्रणीत्वमिन्द्रियगणस्य । 102.14 ff 81. विशेषतः पथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी रूपलावण्यादिगुणगणावासः. 150.32ff. 82. वीतरागदेवतागारसंनिधी विरुद्धं रागिणामवस्थानम् । 162.26. 83. व्यक्तं जगत्यदृष्टवशाद्विशालगुणसंपद्भिरप्यसुलभाः, स्वल्पगुणैरपि सुप्रापाः प्रसिद्धयो भवन्ति । 124. 1ff. 84. सततमचलप्रकृतिना हि पुरुषेण भवितव्यम् । 121.20 85. सत्कथारसवंध्येन्षु निबन्धेषु नियोजिताः। नीचेष्वपि भवन्त्याः प्रायो वैरस्यहेतवः । 2. 15ff. 86. सपुण्ययोगादयत्नलब्धं पुरुषरत्नं किमवालिशः कोऽपि शिथिलयति । 100. 11ff. 87. समग्राण्पपि कारणानि न प्रारजन्मजनितकर्पोदयक्षगनिरपेक्षणि फलमुपनयन्ति । 12. 20ff. 88. सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रां यदी दृशमप्येनमवगच्छतामीदृशीमपि भावनामनित्यतां विमा वयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तं न विशीयते विषयाभिलाषः, न भंगुरीभवति भोगवांछा, नाभिधावति निःसंगतां बुद्धिः, नांगीकरोति निक्बाधनित्यसुखमपवर्गस्थानमात्मा । सर्वथातिगहनो बलीयानेष संसारमोहः । 143. 1ff. 89. सदरमपि विषण्णेन धीमता तदेव चिन्त्यं वस्तु यदुपायसाध्यम् । नितान्तनि फलारग्मेण चिरमपि च्यातेन केवलं क्लेश एव हृदयस्य । 203.28 ff. 90. सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रह लोकमावर्जयन्ति । ततस्तेन कृतपक्षपरिग्रहेण ग्राहितसंबन्धाः प्रभूणामसक्तमात्मभक्तिमुपदर्शयन्ति । एष तावज्जगति दृश्यते व्यवहारः। 29. 3ff. 91. संभवन्ति च भवार्णवे विविधर्मवशवतिनां जन्तूनामनेकशो जन्मान्तरजातसम्ब धैर्बन्धुभिः सुहृद्भिर फैश्च नानाविधैः सार्धमबाधिताः पुनस्ते सेबन्धाः, स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः। 26. 16ff. 92. स्वदारपालन कर्म गृहमेधिनां धर्म । 185.28fr. 93 स्वल्पे प्रयोजने न किंचिदात्मना संशयमारोपितेन फलम् । 108.5ff. 94. स्वादुतां मधुना नीताः पशूनामपि मानसम् । मदयन्ति न यद्वाचो किं तेऽपि कवयो भुवि । 2. 1ff. 95. स्वापत्यदुर्विनयजनितोद्वेगस्य गुरुजनस्य कोपोत्पादनादधर्मः । 168.15. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474