________________
Appendtx-C 72. प्रागल्भ्येन स्वभावमधुराः सर्वजनहृदयहारिणः क्षणमात्रपरिचितेऽपि जने जनितविश्रम्भाः कस्य नाम न
विस्मयमावहन्ति, कं वा विधेयं न कुर्वन्ति अपूर्वाभिभंगिभिरुद्भासिताः पदे पदे...विनोदकथालापाः ।
157.20ff. 73. फलाभिलाषिणा पुरुषेण नैकान्ततो नीतिनिष्ठेन भवितव्यम् । अभिमने वस्तुनि दैवं प्रमाणीवृ.त्य सर्वात्मना
प्रवर्तितव्यम् । 90. 10ff. 74. यदेव गुरवः किंचिदादिशन्ति, यदेव कारयन्ति कृत्यमकृष्य वा, तदेव निर्विचार कर्तव्यम् । विचारो हि
तद्वचनेष्वनाचारो महान् । 175.11 ff. 75. यद्यपि सुचिरकालसंचितेन सततानुगाभिना सद्भुत्येनेव शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूर
वर्तिन्येव दुरितानि, तथापि नीतिरनुसतव्या । 35.20ff. 76. वन्द्यास्तेकवयः काव्यपरमार्थविशरदाः । विचारयन्ति ये दोषान्गुणांश्च गतमत्सराः 1. 20ff. 77. वर्णयुक्तिं दधानापि स्निग्धांजनमनोहराम् । नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्नुते । 2. 11ff. 78. वामचारिण्यत्र मार्गमृग इवाध्वगा नाधिगच्छन्ति वांछितानि व्यापारितसकलसामा अपि फलार्थिनः ।
65.11ff. 79. वार्योऽनार्य स निर्दोषे यः काव्याध्वनि सर्पताम् । अग्रगामितयाकुर्वन्विघ्नमायाति सर्पताम् । 1.23ff. 80. विवेकिना विचारणीयं वस्तुतत्वम् । नोडिझतव्यो निजावष्टम्भः । स्तम्भनीयं मनः प्रसरदपथे, न देयम
ग्रणीत्वमिन्द्रियगणस्य । 102.14 ff 81. विशेषतः पथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी रूपलावण्यादिगुणगणावासः. 150.32ff. 82. वीतरागदेवतागारसंनिधी विरुद्धं रागिणामवस्थानम् । 162.26. 83. व्यक्तं जगत्यदृष्टवशाद्विशालगुणसंपद्भिरप्यसुलभाः, स्वल्पगुणैरपि सुप्रापाः प्रसिद्धयो भवन्ति । 124. 1ff. 84. सततमचलप्रकृतिना हि पुरुषेण भवितव्यम् । 121.20 85. सत्कथारसवंध्येन्षु निबन्धेषु नियोजिताः। नीचेष्वपि भवन्त्याः प्रायो वैरस्यहेतवः । 2. 15ff. 86. सपुण्ययोगादयत्नलब्धं पुरुषरत्नं किमवालिशः कोऽपि शिथिलयति । 100. 11ff. 87. समग्राण्पपि कारणानि न प्रारजन्मजनितकर्पोदयक्षगनिरपेक्षणि फलमुपनयन्ति । 12. 20ff. 88. सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रां यदी दृशमप्येनमवगच्छतामीदृशीमपि भावनामनित्यतां विमा
वयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तं न विशीयते विषयाभिलाषः, न भंगुरीभवति भोगवांछा, नाभिधावति निःसंगतां बुद्धिः, नांगीकरोति निक्बाधनित्यसुखमपवर्गस्थानमात्मा ।
सर्वथातिगहनो बलीयानेष संसारमोहः । 143. 1ff. 89. सदरमपि विषण्णेन धीमता तदेव चिन्त्यं वस्तु यदुपायसाध्यम् । नितान्तनि फलारग्मेण चिरमपि च्यातेन
केवलं क्लेश एव हृदयस्य । 203.28 ff. 90. सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रह लोकमावर्जयन्ति । ततस्तेन कृतपक्षपरिग्रहेण
ग्राहितसंबन्धाः प्रभूणामसक्तमात्मभक्तिमुपदर्शयन्ति । एष तावज्जगति दृश्यते व्यवहारः। 29. 3ff. 91. संभवन्ति च भवार्णवे विविधर्मवशवतिनां जन्तूनामनेकशो जन्मान्तरजातसम्ब धैर्बन्धुभिः सुहृद्भिर फैश्च
नानाविधैः सार्धमबाधिताः पुनस्ते सेबन्धाः, स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः। 26. 16ff. 92. स्वदारपालन कर्म गृहमेधिनां धर्म । 185.28fr. 93 स्वल्पे प्रयोजने न किंचिदात्मना संशयमारोपितेन फलम् । 108.5ff. 94. स्वादुतां मधुना नीताः पशूनामपि मानसम् ।
मदयन्ति न यद्वाचो किं तेऽपि कवयो भुवि । 2. 1ff. 95. स्वापत्यदुर्विनयजनितोद्वेगस्य गुरुजनस्य कोपोत्पादनादधर्मः । 168.15.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org