________________
तिलकमञ्जरी कथा
47. क्षुण्णोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्र : 1 इति विमृशन्तः सन्तः सन्तप्यन्ते न विधुरेषु ॥ 236 5ff. 48. गर्हितमस्मद्विधानामकाले परकलत्रदर्शनम् । 160 32ff. 49. गोत्रदेवता सर्वकालमेवोपासनीया । 165. 27ff. 50. तथापि विधिरत्र प्रमाणम् । 186 6ff.
51. दिव्यदर्शनममोत्रम् । 26. 1.
52. दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । 27. 3ff.
53. दुःखहेतुरनुरागः, विषोपमा विषयोपभोगवांछा, वांछितार्थप्रतिपन्थीन्यधर्मविलसितानि, सर्वतः सुलभविघ्नोद्गमाः क्रियारम्भाः । 65. 7ff.
३५५
54. दुर्लभः पुनरीदशे पुण्यसरसि शरीरत्यागः । 198.17.
55. दुष्कुलादपि ग्राह्यमंगनारत्नम् । 74, 30.
56. धार्मिकजनानुवृत्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । 15, 13.
57. न कोऽपि परमार्थतः प्रेयाननुवर्तनीयः पूजनीवो वा प्रजारक्षणमात्र कर्तव्यानां नरपतीनाम् । 174, 28ff. 58. न च सुकृतकर्मणा केवलेनैव संजातसंभवानां भवादृशीनामनुबन्धमप्राप्येषु वस्तुषु विधते बुद्धिः । 172. 25ff.
59. न हि कोऽपि कन्यकायाः प्रियः तवायमप्रियो वेति प्रदानसमये समाजमिव बन्धूनामबुधोऽपि पृच्छति । 174. 30ff.
60. न हि त्र्यम्बकजटाकलापमन्तरिक्षं वा विहाय क्षीणोऽपि हरिणलक्ष्मा क्षितौ पदं बध्नाति । 29 30ff. 61 न हि पशूनां स्वरूपेणाकाशगमने कदाचिदस्ति शक्तिः 142. 3ff
62. न हि येषु केषुचिदनर्थोपनिपातेषु कदाचिदपि दिव्यानामास्पदेषु सम्पद्यन्त इदृशाः पदार्थानां प्रकृतिविपर्ययास्तत्संनिवासिनां च विबुधलोकानामन्तरत्यन्तशोकातं कशंसिनो हृदयायासाः । 24. 21ff.
63. न हि सन्निकृष्टायामापदि दुरुपपादायां च कल्याणसम्पदि, कदाचिदीदृशी निरातंकता वरा च चित्तवृत्ते भवति । 83. 22ff.
64. नास्त्यगोचरः पुराकृतकर्मणाम् । 202. 12ff.
65. निरन्तरतपःक्षतिवपुषामृषीणामपि मुषितधैर्माणि दृश्यन्तेऽधुना हृदयहारीणि विभ्रमचेष्टितानि । 207, 19ff. 66. निसर्गत एव निरंकुशः पापकारीव व्यालो बलीयान्विधिर्ब्रद्धोऽपि बुद्धिमद्भिरतिनिबिडेन प्रज्ञालोहनिगडेन निरवग्रहो विचरति । 65. 10ff.
67. परिग्रहनने सन्निधौ सति कोऽधिकारः प्रभूणामग्रपूजायाम् । 29, 18ff.
68. प्रज्ञोद्यमावरणिमन्थावित्र हविर्भुजः पितरौ कार्यसिद्धेः । तौ हि पुरुषव्यापारानुगृहीतौ नाम्ति तद्धस्तु यन्न साधयतः । 18 14ff.
69. प्रनष्टजीवितानां दुर्घटं पुनः प्राणनम् । 198. 17ff.
70. प्रथितगुणस्थानस्थितस्यासतोऽपि हि माहात्म्यमाविर्भवति । पद्मिनी दलोत्संगसंगी जलबिन्दुरपि मुक्ताफलद्युतिमालम्बते । मृगांकबिम्बचुम्बी कलेकोऽपि अलंकारकरणि धत्ते । कुरंगलोचनालोचनलब्धपदमंजनमपि मण्डना । 124.7ff.
71. प्राकृतजनगृहीतदण्डमपि छायार्थिभिरुत्तमांगोपरिस्थं धार्यते छत्रम् | 34.3ff.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org