Book Title: Tilakmanjari
Author(s): Dhanpal Mahakavi
Publisher: L D Indology Ahmedabad
View full book text
________________
तिलकमञ्जरी टिप्पनकद्वयम्
२८३ शा०टि० विषमाश्वमण्डलभेदिनः प्राप्तमोक्षा:-एकत्र प्राप्तनिर्वाणाः, कीदृशास्ते ? विषमाश्वमण्डलभेदिन आदित्यमण्डलभेदिनः; अन्यत्र विषमतुरगसङ्घातदारकास्तथा लब्धमुक्तय-। दत्तदीर्घनिद्रा महासन्निपाता:-एकत्र महासन्निपाताः ज्वरविशेषाः दत्ततन्द्राकाः; अन्यत्र दत्तमरणाः, तथः महत्सु सन्निपातः निपतन येषां ते तथोक्ताः । स्वेच्छाविहारिण: खेचरा: 1एकत्र खेचरा विद्याधराः, कीरशास्ते ? स्वेच्छाविहारिण आत्मेच्छाविहरणशीलाः; अन्यत्र आकाशगामिनः, स्वेच्छाविहारिणश्च । ऋजुस्वभावा लब्धशुद्धयः-ऋजुस्वभावाः कीदृशास्ते' ? लब्धशुद्धयो लब्ध. नैर्मल्याः । एतेष्वन्तभूत इवार्थो दृष्टव्यः । सूतमारणोद्यताः सारथिमारणकृतोद्यमाः, अन्यत्र पारदमारणोद्यताः । आकृष्टसुभटग्रामकङ्कटा: विदारितसुभटसमूहकवचाः, अन्यत्र आकृष्टाः अपनीताः सुभटग्रामेभ्यः कङ्कटाः "कचुका यैस्ते तथोताः; आकृष्टाः आकर्षिताः सुभटग्रामेभ्यः कङ्कटाः कृषीवृला' येस्ते तथोक्ता इति वा । कल्पितकरिविषाणाः खण्डितगजदन्ताः, अन्यत्र वि-भूपितगजदन्ताः] । लिखिताष्टापदसारफलका: एकत्र 'लिखितातविशेषशारिगृहकाः, अन्यत्र विदारितसुवर्णमयप्रधानफरकाः । पतङ्गाः शलभाः । पक्षाः पिच्छानि । अभिलषितगजदाना मार्गणतां- दान वितरण', खण्डन' च; मार्गणतां याचकतां, बाणतां उद्वहन्तः । उन्मिषितनीलत्विा बाणतांत्विद दीप्तिः, 10 अतिशोभा च; बोणतां 11शरतां, वाणवृक्षतां च, उद्वहन्तः । द्विधाकृतोदण्डपुण्डरीकाः कादम्बाभिधां-द्विधाकृतानि छिन्नानि, उद्गतदण्डानि, पुण्डरीकाणि छत्राणि, यैस्ते तथोक्ताः; अन्यत्र छिन्नोद्दण्डपद्माः, कादम्बाः हिंसाश्च । आरावमुखरिताशामुखाः शिलीमुखाभिख्यां13-रणे 'शब्दशब्दितदिङ्मुखाः; शिलीमुखाभिख्यां, शिलामुखाः भ्रमराः । ६५) 15अवलम्बितासमक्षमस्य यो अवलम्बितासमक्षमः स कथं समक्षान्तिः । अन्यत्र
ता०टि० विस्तारिणः । तीक्ष्णाः निशाताः, घातकाश्च । सुपर्वाण: देवाः, सुग्रन्थयश्च । वाजिनः घोटकाः, पिच्छ-[नि च । विषमाश्व: रविः, विपमा हयाः [च] । दीर्घनिद्रा मरणम् । ग्रामकङ्कटा: ग्रामकुण्डाः, तनुत्राण [च] । विलिखिताष्टापदसारफलक० विदारितः सुवर्णेन स्फरकाः; न दारव्यं वयं फलकम् । दीपिकाषण्डा० निशायुद्धत्वात् । ०गजदाना मार्गणताम् [गज-खण्डनं करिविश्राणनं च । पुण्डरीकं छत्र पद्म च । कादम्बाः हंसाः ॥
(1) Bt drops एकत्र खेचरा. (2) C drops ते. (3) BIBC कीदृशाः. (4) S drops ०द्यमाः. (5) BBCS पारत०. (6) B' कर्कुटका. (7) B1 कृषिवला. (8) BBCS ० त०. (9) B, drops या चकतां बाणतां च; BCS याचतां. (10) BCS drop अति०. (11) BI drops evalam|32ai; S drops amai. (12) BCS drop go. (13) BCS drop otzi. (14) BL drops रणे. (15) B' drops the portion from अवलम्बिता० etc. upto अस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474