________________
शान्त्याचार्य-शानेकलश-विरचितम्
शा०टि० शैलूस्य नटस्य महावातिकः मन्त्रवादी । धातुवादिकः रसवादी । सर्वदासत्वे [स्थिता] कृता' वस्थितिः, या सर्वेषां दासत्वे विहितव्यवहारा, सत्यमुक्ता चासतीसहिता सा कथम् अजातस्वैरिणासङ्गाऽभूतकुलटा ? अन्यत्र सर्वदा सत्त्वे कृतावस्थाना अनृतरहिता च । निरपत्या, या अपत्यरहिता सा कथं लालितापत्या ? अन्यत्र लालिता पालिता', केन ? पत्या भा ।
सुरापगेति मद्यनदीति, यद्वा मद्यपगामिनीति, परभागं शोभाम् । 'प्रीतिप्रतिपक्षभूता प्रीतिशत्रुभूता । अधिकमलं बहुतरदोषम, अन्यत्र पद्ममाश्रित्य । रेणुः धूलिः, अन्यत्र गौरी । गत्यभावेन निर्वाहाभावेन गमनाभावेन च । वेला' उङ्गुलिखण्डन समुद्रपर्यन्तभूमिश्च । निशि तमसि रात्रावन्धकारे, पट्ट फलकम् , अन्यत्र निशितं तीक्ष्णम् , असिपर्ट खगलताम् ।
शालीनस्मितं सलज्जेषद्धास यत् तत् कथम् अस्मिताञ्चितपदन्यासम् अनीषद्धासप्रशम्यक्रमनिक्षेपम् ? अत्यत्र 'अस्मि'-इत्येतस्प भावोऽस्मिता अहङ्कारः, तेनाञ्चितपदम् । स्वादिष्ठा मधुरतमा ।
६) उदानः ऊर्ध्ववातः । त्रिशकुः चाण्डालविशेषः ।
कृष्णद्वैपायननिव व्यासमिव; युधिष्टिरेण, महत्त्वेन माहात्म्येन, जनितबहुमानम् , विशेषणानि समानानि ।
चरणाः अध्ययनविशेषाः पादाश्च । अक्षमाला बिभीतकराजिः, अक्षसूत्र च° । ब्रह्मसूत्र प्रजापतिसूत्रण' यज्ञोपवीत च । विधिः विधाता, चथावच्च । अनवद्यप्रमाणां प्रशस्यमानां, प्रशस्थप्रत्यादिप्रमाणां च । दृष्टिः दर्शनं, चक्षुश्च । भूताः. प्रेताः, सत्त्वाश्च । अङ्गलक्ष्मी शरीरशोभां, दाद्वशङ्गानि च ।
ताटिक कलहंस० विलासा एव हंसाः । 'सौभाग्यं सद्गमनसन्निरीक्षणसज्जल्पनमिति लावण्यम् । स्पृहणीयो रतिसुखदः स्पर्शगुणो भवति सौभाग्यम् ॥' जातरूपम् सुवर्णम् । महावातिकस्य गारुढिकस्य । धातुवादिकस्य रसवानिः । विकसत् विस्तरत् । स्वैरिणी० [स्वैरिणीभिः ।] लालिता पत्या भर्ना लालिता । सुशवगा सुराप गच्छन्तीति ते सुरापगाः । भङ्गिः विच्छित्तिः । कलयापि लेशेनापि । दरिद्रमध्यलरणि लध्वी । स्वादिष्टोक्तिः प्रधानोक्तिः ।।
६) याममात्रे सञ्जातप्रथमपहरे । विटङ्कः कपोतपाली० । आपतन्तम् विद्याधर
(1) BC कृतस्थितिः ; B1 drops tiie tast portion from या चा...upto कृतावस्थाना. (2) Cadds केता after पालिता. (3) BSC drop प्रति. (4) B1 पद्मा श्चित्त्य. (5) C drop ग. (6) B1 drops च. (7) BC अंगुली. (8) Br drops न्यासं. (9) BSC drop च । ब्रह्मसूत्र. (10) B' drops a.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org