________________
२७१
तिलकमञ्जरीटिप्पनकवयम्
शा०टि. धर्मराजेन यमेन ।
जटा मिलितकेशाः, मूलानि च । एकत्र तनुशिरा जालं सूक्ष्मजलवाहस्थानम् , अन्यत्र च' प्रकटशरीरनसा वृन्दम् । एकत्र लम्बभुजकर्णैः गणितभेदैः, [उद्भासित] शोभितम् , अन्यत्र लम्बा ये भुजकर्णास्तैः । नितम्बः कटीप्रदेशः, अधोभागश्च । वशीकृतविषमाक्षचित्तं रञ्जितहरमानसं तथा वशीकृतफरेन्द्रियमानसम् । तपोदयक्षपितानेकपापकलिम् एकत्र [तपो. दयेन] ग्रीष्मोदयेन, क्षपिताः हतवीर्याः सन्तः, अनेकपाः करिणः, अपकलयः गतकलहाः, यस्मिन् स तथोक्तः, तम्, 'सैन्य'-शब्दस्योभयलिङ्गत्वात् ; अन्यत्र तपःकरुणाभ्यां नाशितबहुपापकलिकालम् । त्रिकृटकटकोरःस्थलकमलसमकरम् एकत्र त्रिकूटाचलप्रस्थहृदयस्थितलङ्कापुर', मन्दजलचर च; अन्यत्र त्रिकुटकटकवद् उरःस्थलं वझो यस्य सः तथो त विपुलवक्षसमित्यर्थः, पद्भतुल्यहस्त च । निष्परिग्रहमपि, यदि भार्यारहित कथं सकलत्रम् ? अन्यत्र 'सर्वजनरक्षं च । विदितवस्तुसारेतरविभागमपि ज्ञातपदार्थप्रधानाप्रधानविवेकं यदि कथं समे तृणवाले मुक्तालेष्टुनी लोष्टकाञ्चने च यस्य स तथोक्तः, तम्; अन्यत्र समतृणप्रवालमुक्तालेष्टुलोष्टकाञ्चनं वीतरागत्वेन रागाभावात् ।
परपुरुषदर्शनसावधानं परपुरुषः अन्यनरः, अन्यत्र परमात्मा । भूतापमुहम् एकत्र पृथ्वीसन्तापहारिणम्, अन्यत्र, प्राणिविपत्तिघातिनम् । दुर्विषहतेजसं तेजः दीप्तिः, अन्यत्र वीर्यम । काशधवल गुणोद्भासितम् एकत्र 1°काशानां धवलगुणेन 11वेतत्वेनोद्भासितम् , अन्यत्र काशवद् ये धवला गुणाः क्षान्त्यादयस्तैः शोभितम् ।
ता०टि० मुनिमपश्यदित्युत्तरपत्र सम्बन्धः । उदान ऊर्ध्ववातः । केरली केरलदेशस्त्री । अनङ्ग तस्मात् । विशालाक्षस्य ईशस्य । त्रिशङ्कुः चाण्डालः । सन्तर्पयन्त वर्धापयन्तम् । तपो धर्मः कष्टानुष्ठान च । चरणः गोत्र पादश्च । अक्षः बिभीतकः । सिद्धः देवविशेपः । पुण्यरज्जुः स्रजां रज्जावनुपमा । लम्बभुजकर्ण० मध्यं लम्बः उपर्यधो भुजा पार्श्वतः कौँ । अम्बिका गौरी । अक्षः इन्द्रियम् । तपः ग्रीष्मः । तपोदयक्षपितानेकपापफलिं तपश्च दया च तपोदय ; समाहारे क्लीबत्दाद् ह्रस्वत्व'; ततस्ताभ्यां यथासङ्ख्यं क्षपितः पापकलिविवादो येन त; हस्तिभिरपकलिं सङ्ग्रामम् । उरस्थल० हृदयस्थल । परिग्रहो दारा । सकलत्र
(1) BSC drop च. (2) BT - कशा-. (3) B1 drops रञ्जित...तथा. BC जितहरमानस (4) B1 -कोरुण्याभ्या. (5) B BICS निःपरिग्रह-. (6) BSC drop कथं...रहितं. (7) B1 सकलजनरक्षकं. (8) BC पुर-- (9) BBICS कास- (10) BBICS कासानां. (11) S स्वेतत्वनो-, (12) BBics कासवत्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org