________________
२७२
शान्त्याचयं-शानकलश-विरचितम्
शा०टि० तजसम् आग्नेयम् , अन्यत्र तेजोविकारम् । पावनं वायव्यम् , अन्यत्र पवित्रताकारकम् । आप्यम् 'अब्मयम् , अन्यत्र आप्पं प्राप्यम् । पार्थिव' पृथिवीविकारम् , अन्यत्र राजानम् ।
- (७ आविर्भूतदिव्यभावः संजात[देवत्वः, इव, निश्चलदृष्ट्यदित्वात् । सुदूरक्किासितमुखः एकत्र सुदूराद् विकासितं मुख' वक्त्रं यस्य स तथोक्तः, अन्यत्र सुदूर विकासितानि मुखानि यस्य स तथोकः ।
८) सप्रश्रयं सविनयम् ।
बौद्ध इव शून्यदर्शी विचार्यमाणं न किञ्चिद् वस्तु अवयवावयविरूपमस्तीति पश्यति; सन्तानसिद्धयर्थमान्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन् आत्मनः जीवस्य, 'ज्ञानक्षणप्रवाहसाधनोपायान् युक्तिकलापान् अन्वेषयति, अन्यत्र पुत्राभावात् सर्व शून्य पश्यति, आत्मनः स्वस्थ, अपत्यसन्ततेः उपायान् हेतून , अन्वेषयति ।
९) प्रतीक्ष्यः पूज्यः । १०) मागधी नग्नाचार्यभार्या । कण्ट किनि कण्टकयुक्ते, रोमाञ्चिते च ।
ता०टि. त्रायते इति । परपुरुष० परमात्म० । इन्द्रियवृत्ति० एव । भूतापद्रुहं प्राणिनामापदो द्रयति तम् । दुर्विषह० दुर्विष हन्तीति ; अन्यतोऽपि चेति डः । पावनं पवित्र' वायव्यम् । आप्यं प्राप्यम् , अप्युभव वा । पार्थिवं भूजातम् ॥
७) परिग्रहः कलत्रम् । समुपनीते राज्ञा ॥
८) अभूमिः अस्थानम् ; यदने(कार्थः)-'भूस्तु भूमिरिव क्षितौ । स्थाने च (१।१०-११) । नष्टः स्थितः । कच्चिन्न सम्पन्नः उतिक्रमे । नौ आवयोः । बौद्धः माध्यमिकः । मसृण कोमलम् ॥
-९) अनुबध्यमानया निषिध्यमानया च । तापदत्तोद्वेगः [ताप-एन (दत्तोद्वगः) यस्य सः । किं च ते...देवताभिः कार्यमिति सम्बन्धः । प्रतीक्ष्येण पूज्येन । जप्य० ध्यानीय० । विधेयीकरोति वश्यी-[करोति] । अनुध्यानं स्मरणम् ।
१०) चित्तवृत्तिः अस्माकम् ॥
(1) BCS अम्मयं. (2) BBICS विकसित-- (3) BBCS विकसित. (4) BBICS विकसितानि. (5) BCS drop सविनयम्. (6) S सून्य-. (7) B1-लक्षण---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org