Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 426
________________ परिशिष्ट-४ तत्त्वार्थाधिगमटीप्पणम् सूर्यप्राथम्यं प्र(ति)सिद्धेरित्युत्पलचन्द्रिकायाम् । अत एव- “असुरा नागा विज्जू सुवण्णग्गीवाउथणिया य । उदही दीव दिसाक् विय दसभेया भवणवासीणं ।।३ ।। इति जिनभद्रगणिक्षमाश्रमणाः । “व्यन्तरा: किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः" इति। अत्र “वाणमन्तरा अट्ठविहा पन्नत्ता। तं० किण्णरा किंपुरिसा महोरगा गन्धव्वा जक्खा रक्खसा भूया पिसाया”। इति “प्रज्ञापनोपाङ्ग” वचनमाराधितम् । “सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे चेति” । अत्र प्रथमविभक्तित्रयत इन्द्रदशकं ज्ञापितं । अवेयकानुत्तरान्तराले विमानान्तराणि न ज्ञापितानि । विजयादिचतुष्कपृथग्निर्देशतो “जयन्ताओ देवलोगाओ बत्तीसं सागरोवमट्ठिइयाओ, अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमट्टिइयाओ, इति तादृशाभिप्रायि “ज्ञाताधर्मकथादशश्रुतस्कन्ध” वचनाराधना कृता। “पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु” इति । अत्र मिश्रलेश्याकत्वं न ज्ञापितम् । प्राग्वेयकेभ्यः कल्पा" इति । अत्र कल्पेष्वहमिन्द्रोत्पत्तिर्निपिद्धा । “ब्रह्मलोकालया लौकान्तिका” इति। अत्र लोकान्तिकसाहचर्यतः पञ्चमस्वर्गस्याखण्डगोलकता. ज्ञापिता । परतः परत: पूर्वानन्तरेति । अत्र तृतीयादि गोलकोत्तरदले साधिकस्थितिर्न ज्ञापिता । “अजीवकाया धर्माधर्माकाशपुद्गलाः"। द्रव्याणि जीवाश्च” इति । अत्र कालस्य गौणद्रव्यत्वं ज्ञापितं नाणोरिति । अत्र पुद्गलशब्दानुवृत्त्या पुद्गलाणुरेव ज्ञापितः ।। “वर्तना परिणामः क्रियापरत्वापरत्वे च कालस्य" इति । अत्र कालो द्रव्यचूलेति ज्ञापितो यथा सम्यग्मोहः कर्मचूलेति । “कालश्चेत्येके” । “सोऽनन्तसमयः”, इति । अत्र कालस्यासंख्याणुकत्वं न ज्ञापितं । “तद्भावः परिणामः” । “अनादिरादिमांश्च” । “रूपिष्वादिमान्” । “योगोपयोगी जीवेषु” इति । अत्रोपयोगी भिन्नकालीनतया ज्ञापितौ । दर्शनविशुद्धयादिसूत्रे उत्तरगुणापरनामकं शीलं मूलगुणापरनामकं व्रतं, शीलोपलक्षितैव्रतैर्जिननामाश्रवविंशतित्वपूर्तिः। मारणान्तिकी संलेखनां जोषितेति । अत्र संलेखना द्वादशतो बहिः सर्वान्तर्वतित्वात्सर्वादिवर्तित्वेन सम्यक्त्वमिव । सद्वेद्यसम्यक्त्वादिसूत्रे सम्यक्त्वस्य शुद्धपुञ्जत्वात्, हास्यरत्योः पुण्याश्रवं विनानुपपत्तेः, पुरुषवेदस्य पवित्रकीर्तित्वात्पुण्यत्वविवक्षा। क्षुत्पिपासादिसूत्रे नाग्न्यशब्दतः “जस्सट्ठाए कीरति नग्गभावे मुंडभावे” इति प्रवचनपदाराधना ज्ञापिता । , “एकादश जिने” इति । अत्र क्षुधादिपरीसहाभावो न ज्ञापितः । “बादरसम्पराये सर्वे” इति अत्र जिनानन्तरं बादरसम्परायज्ञापना जिनेऽस्मद्वत्परीषहा इति ज्ञापितम्। “ज्ञानदर्शनचारित्रोपचार” इति । अत्र दर्शनस्य प्राथम्यं न कृतम् । “आमुहूर्तात्” इति । अत्र सर्वस्यापि ध्यानस्य नाधिकं स्थिति पिता। “उपशान्तक्षीणकषाययोश्च” इति । अत्र पूर्वधरापराणां श्रेणिद्वये धर्मध्यानं ज्ञापितम् । “तत् त्र्येककाययोगायोगानाम्" इति अत्र चरमदशात ऋते केवलिनो ध्यानरहिताः । क्षेत्रकालगतिलिङ्गादिसूत्रे स्त्रीलिङ्गिनामपि मुक्तिः । इत्यतो नमस्तीर्थाय ।। नमोऽस्तु वाचकमुख्यायेति मुख्यत्वं च उमास्वातेः पूर्वंगतकियदूराध्येतृत्वात्, तथा चोक्तम्, निरन्तरमपि त्रिजगज्जनराजीवराजीप्रबोधकरणैकतानाय तीर्थकरमहामार्तण्डाय || पसमरइपमुहपयरणपंचसया सक्कया कया जेहिं । पुव्वगयवायगाणं तेसिमुमासाइनामाणं ।।१।। पडिहयपडिवक्खाणं पयडीकयपणयपाणिसुक्खाणं। पणमामि पायपउमं विहिणा विणएण निच्छउमं ।।२।। इति । पूर्वगताऽवस्थानं च चरमपरमेश्वरनिर्वाणाद्वर्षसहस्रं । यावदासीद्भगवत्यङ्गवचनप्रामाण्यात् ।। (पृ.१)

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462