Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 429
________________ तत्त्वार्थाधिगमटीप्पणम् परिशिष्ट-४ यदाहुः- “जीवाजीवा पुण्णं, पावासवसंवरा य निज्जरणा। बन्धो मुक्खो य तहा, नव तत्ता हुंति नायव्वा ।।१।।" इति। अत्राश्रवतत्त्वं जलरूपम बन्धतत्त्वं बीजरूपम पुण्यपापे च शाखारूपे, न च बीजतःसकाशाच्छाखा भिन्नैवाऽभिन्नैव वेति वक्तुं पार्यते। भिन्नैव यदि, बीजमन्तरेणापि शाखाप्रादुर्भावः स्याद्, न चैवं विलोकयामः। अथाभिन्ना, तदा युगपदेव बीजशाखे भवतः, नैवमपि पश्यामः । बीजवपनकालादङ्कुरादिनिर्गमकालस्याऽन्यत्वात् । न च वाच्यं बन्धः प्रकृतिस्थित्यनुभावप्रदेशभेदाच्चतुष्प्रकारस्तदा भूयोऽपि पुण्यपापयोः कः प्रतिविशेष इति अत्रोच्यते- बन्धनं बन्धः कर्मणोऽनभ्युदयसमय एव, तदपेक्षया मनुष्यतिरश्चामपि बद्धदेवत्वानां देवतात्वसंभवः, पुण्यतत्त्वमपेक्ष्यते तदा स्पष्टोदितदेवगतिनामकर्माण एव देवत्ववक्तव्या भवन्ति। अथ कर्तृकरणयोरैक्योपचारात्त्रीण्येव तत्त्वानि स्युः ज्ञेयहेयोपादेयभेदानि ।। यदुक्तं___ “हेया बन्धासवपुण्णपावा, जीवाजीवा य हुँति नेयाओ। संवरनिज्जरमुक्खा, तिन्नि वि एए उवाएया ।। ।।” इति जीवाजीवयोः कथञ्चिदभेदः, अन्यतमस्मिन्नपि जिनात्मकज्ञेये सकलज्ञेयानां प्रतिबिम्बितत्वात् । पुण्यपापाश्रवबन्धानां च कथञ्चिदैक्यम हेयत्वसाधर्म्यात् । जलबीजशाखादिवत् तथा संवरनिर्जरामोक्षणामपि कथञ्चिदैक्यम् ।।४।। ___ न हि संवरं विना निर्जरा भवति, नापि निर्जरामन्तरेण मोक्षः सम्प्राप्यते। कथञ्चिच्च जीवादिसर्वेषामप्यभेदः, “सर्वमेकं सदविशेषात्” इति सङ्ग्रहापेक्षाप्रवृत्तेः। कथञ्चिच्चाऽतीवसंख्याकत्वं व्यवहाराख्यनयप्रवृत्तेः। सर्व एष भाषा अनन्तनयात्मका न चैकान्ताः (अ.१ सू.४) (पृ.७७) . 14. “एभिर्नामादिभिरिति” । अत्राऽनादिस्वयंसिद्धधर्मास्तिकायरूपलोके नामस्थापनाभ्यामुपकृतानि सर्वाणि भवन्ति, तदनर्हाणां सर्वेषामप्यवस्तुत्वात् । तद्यथा- नामाऽत्युपक्रियमाणा धर्माधर्मादीनां प्रतीतिरास्ते। तद्विरहे किञ्चिन्मात्राया अप्यप्राप्तेः। स्थापनाऽप्युपक्रियमाणा च तदवगाहनासमुपलब्धिः समस्ति। न खलु तद्विप्रयोगेऽद इदमेतदिति सम्प्राप्त्यौचिती स्यात् । नाप्यद इदमेतदित्येतेषामविषयीभूते क्वचिदपि वस्तुत्वं प्रवर्ततेमा च कश्चिद्विवदता उपचारोऽयमिति । उपाचारमन्तरेण परमार्थाऽनवाप्तेः। उपचारपरतन्त्रत्वात्परमार्थस्य । न खल्वेकाख्यमङ्क विशिष्टादिबीजभूतं विना तदतिवृद्धानां द्वित्रिचतुराद्यङ्कानामपि सतत्वभणितिस्तत्परिज्ञानं वा लेशतोऽपि भवितुमर्हतीति ।। अत्रायं भावः, यथा गौतमस्वामी गौतमशब्दे जैनानां तद्विज्ञातृणां वाऽन्येषां मनसा चिन्त्यमानो भवति सत्य तदा तस्य प्रभो मनिक्षेपः. न च वाच्यं मिथ्यादृष्टिप्रसिद्धगौतमाख्यविप्रर्षिचिन्तायामपीति । यतो हि प्रोक्तमास्ते “ अन्नत्थ वंजणे निवडियंमि जो खलु मणोगओ भावो । तत्थ उ मणं पमाणं न पमाणं, वंजणच्छलणा ।।१ ।। इति अत एव स्थापनानिक्षेपोऽप्येवं भाव्यः। कथमन्यथा परतीर्थिकदेवालयवर्तमानजिनेश्वरप्रतिमाप्रणत्य स्यात् नोचिता। भण्यते चरूद्रादिसामान्यमसौ स्थितश्चेन्न वन्दनीयो हितमूहमानैः । अधः प्रजानां वसतः सतोऽपि, नृपस्य यस्मान्महिमा क एव ।।१।। इति ।। (पृ.८३) 15. “धर्मादीनि पञ्च सगुणपर्यायाणीति।” गत्याद्यगुरूलघुप्रभृतिपर्यायभाजीति। एतत् स्यात् यद्येन धर्मेण समन्वितं तं धर्मं न कदाचिज्जहाति तेन सदान्वितमास्ते । इत्येतच्च न प्राप्तिलक्षणानि परिणामलक्षणानीति

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462