Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 431
________________ तत्त्वार्थाधिगमटीप्पणम् मिध्यात्वमोहस्यापि भवति अत इदं प्रोच्यते । ननु सप्तप्रकृतीनामनन्तानुबन्धिकषायचतुष्कदर्शनमोहत्रिकताप्रसिद्धानामुपशमादिभ्य औपशमिकादिसम्यक्त्वोत्पत्तिः स्यात् ततः कथमनन्तानुबन्धिनः कषायाः सम्यक्त्वावरणत्वेऽपि नोपात्ता इति न वाच्यम् । चारित्रमोहस्य पञ्चविंशतिप्रकारत्वात् । निमित्तसद्भावो हि सम्यक्त्वस्याऽनन्तानुबन्ध्युपशमादितः प्रवर्तते, न पुनस्ते सम्यक्त्वावरणानि भवितुमर्हन्ति। यथा केवलज्ञानस्य मोहक्षयः कारणमेव राजते, तदसद्भावे केवलित्वानुत्पादात् परं न हि मोह: केवलज्ञानावरणमिति वक्तुमुचितो भवतीति, अन्यथा अनन्तानुबन्ध्युदयविरहिते मिश्रगुणस्थाने सम्यग्दर्शनमेव चेष्टेत, सासादनगुणे च मिथ्यात्वमेव चेष्टेत, न च तथा श्रूयते, सम्भवति वा, तस्मादनन्तानुबन्धिचतुष्टयं चारित्रावरणमास्ते न पुनः सम्यगा ( क्त्वा ) वरणम् ।। (अ०१ सू०७) (पृ.१२७) 22. ं “गत्यादिद्वारे सद्भूतप्ररूपणा” सद्भूतप्ररूपणेति गतिः पञ्चधा । तत्र पञ्चस्वपि सम्यक्त्वं लभ्यते, पञ्चमी त्विह सिद्धिरिति १ । इन्द्रियाणि पञ्च तत्र पञ्चेन्द्रियाणामेव सम्यक्त्वं, विकलेन्द्रियास्तु सास्वादनापेक्षया कदाचित्सम्यक्त्विनः २ | कायाः पृथिव्यप्तेजोवायुवनत्रसाः । इह त्रसा एव सम्यक्त्ववन्तः ३ । योगा पञ्चदश, तद्यथा सत्यमनः, असत्यमनः, सत्यासत्यमनः, पर्यायसत्यमनः । एवं वचोपि चतुष्प्रकारम् । तया औदारिकमौदारिकमिश्रं वैक्रियं वैक्रियमिश्रमाहारकमाहारकमिश्रं कार्मणमिति । तत्र सर्वेष्वपि सम्यक्त्वं लभ्यते ४। कषायाः पञ्चविंशतिः, तत्रानन्तानुबन्धिचतुष्कवर्जं सम्यक्त्वे स्यात् । सास्वादनं तु सर्वकषायेषु ५। वेदाः । पुंस्त्रीषण्ढाः सर्वे ६ । लेश्याः कृष्णनीलकापोततेजःपद्मशुक्लाः सर्वा अपि द्रव्यतः । भावतस्तु प्रशस्तलेश्यात्रिकं ७ । सम्यक्त्वद्वारे तत्प्रतिपक्षमिध्यात्वमिश्रभेदौ, बहिः कार्यों, विशेषावबोधाय सास्वादनं तु ग्राह्यम् ८। ज्ञानद्वारे अज्ञानत्रयं प्रतिपक्षत्वात् त्याज्यं ९ | चारित्रद्वारेऽसंयमः संयमासंयमश्चापि ग्राह्यः १० । आहारका अनाहारकाश्च सम्यक्त्विनः ११ । उपयोगद्वारे अज्ञानत्यागः १२ ।। (पृ. १४१) 23. “ सम्यग्दर्शनम् ” । एतेन छद्मस्थसम्यकत्वं सर्वज्ञसम्यक्त्वमित्याह । । (अ०१ सू०८) (पृ.१४६) 24. “ज्ञानं” ज्ञानमित्येकवचनं मूलतो ज्ञानैकताज्ञापकम् ।। (अ०१ सू०९) (पृ. १५८) 25. “परोक्षं” इह “अक्षोटि व्याप्तौ” अक्ष्णुते ज्ञानेन विश्वं व्याप्नोतीत्यक्षो जीवस्तस्मात्परं परोक्षमिन्द्रियजनितज्ञानमित्यर्थः । एतेन नेत्रविषयस्यापि परमार्थतः परोक्षताऽवगम्या । कथमन्यथा सर्वदाप्यष्टशतयोजनोपरि चरन् सूर्यः समुद्गमनमध्यवर्तनास्तमयनवेलासु नेत्राभ्यामध उच्चैरधश्च विलोक्य । ( अ. १ सू.११) (पृ.१६५) १३ परिशिष्ट- ४ 26. “ प्रत्यक्षपरोक्षे” इति । परोक्षप्रत्यक्षयोः को विशेष इत्यत्रोच्यते - परोक्षज्ञानी स्वतः परतो वर्तमानं परत एव विलोक्यति । प्रत्यक्षज्ञानी तु स्वस्मिन्नेवेति । यथा हि दूरस्थाः पर्वता दर्पणमध्ये प्रतिबिम्ब्यन्ते यथारूपाः । एवमात्मनः स्वरूपमध्यग एव वस्तुप्रतिभासो भवति । (पृ. १७५) 27. “ अनुमानोपमानागमार्थापत्तिसंभवाभावेति । ” पर्वतोऽयं वह्निमानिति अत्र धूमवत्त्वात्, धूमं दृष्ट्वाऽग्नेरुपलब्धिरनुमानमेवमन्यत्रापि १ । सरः समुद्र इव भरितमस्तीस्युपमानं यतोऽत्र सरोवर्णनयाSब्धेर्जलनिधितत्त्वोपलब्धिः २ । आगमः शास्त्रं ३ । अर्थापत्तिरदृष्टवस्तुनोऽर्थोपलब्धिः ४ । स्त्रीणां गर्भः संभवः ५ । पुंसां गर्भो नेति तु अभावः ६ एवम् । (अ० सू०१२ ) (पृ.१७६)

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462