Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

Previous | Next

Page 448
________________ ३० परिशिष्ट-५ . तुलनात्मकटीप्पणी केषामपि नापसिद्धान्तोक्त्या मिथ्यात्वप्रसङ्गः, तथाहि- यत्सत्तत्क्षणिकमिति सामान्यव्याप्त्या निखिलवस्तुनस्सद्रपत्वेन क्षणिकत्वमिति पूर्वपूर्वक्षणिकवस्तुनस्स्वोत्तरोत्तरक्षणिककार्यकुर्वद्रूपात्मकतया कारणत्वेन पूर्वपूर्वक्षणिकेनोत्तरोत्तरक्षणिककार्यं जायते इति पूर्वोत्तरक्षणवर्त्तिक्षणिकवस्तुद्वयकार्यकारणभावाऽभ्युपगन्तृबौद्धमतप्रकृत्यृजुसूत्रनयापेक्षया केवलज्ञानकेवलदर्शनसूत्राभिप्रायं व्यवस्थापयन्तः पूर्वोत्तरक्षणवर्तिनोऋजुसूत्राभ्युपगतकार्यकारणभावांश एव प्रस्तुत उपयुक्तः, न त्वृजुसूत्राऽभ्युपगत-निखिलतत्त्वभाग इति तत्रौदासीन्यमुक्तकार्यकारणभावे च प्राधान्यमभिसन्दधानाः केवलज्ञानकेवलदर्शन-क्रमिकोत्पादं पूज्याश्श्रीजिनभद्रगणिक्षमाश्रमणाः प्रतिपादयन्ति। यद्यपि चेतनालक्षणसामान्यात्मना केवलोपयोगलक्षणसामान्यात्मना वा केवलज्ञानकेवलदर्शनयोरैक्यमेव तथापि सामान्यविशेषभेदग्राहितया तदुभयभेदग्राहकवैशेषिकनैयायिकमतप्रकृतिव्यवहारनयापेक्षया केवलज्ञानके वलदर्शनसूत्राभिप्रायमुररीकुर्वन्तो व्यवहारनयाभ्युपगतमेदान्यतत्त्वभागे औदासीन्येन तदभ्युपगतभेदमात्रस्य प्रस्तुतोपयुक्तत्वात्तं प्रधानीकृत्य एकसमयावच्छिन्नोत्पत्तिककेवलज्ञानकेवलदर्शनभेदं जगदर्यक्रमाब्जश्रीमल्लवादिन ऊचुः। _ “सदेव सौम्येदमग्र आसीत्, एकमेवाद्वितीयम्, नेह नानास्ति किञ्चन" इत्यादिश्रुत्या घटस्सन् पटस्सन्नित्याद्यनुगतप्रत्ययगोचरीभूतेन सत्त्वेन रूपेणैकस्यैव सर्वजगतो घटत्वपटत्वाधुपाधिभेदेन यः काल्पनिकेदो यद्वाऽखण्डसच्चिदानन्दात्मकस्यैकस्यैव ब्रह्मणो मायावच्छिन्नत्वान्तःकरणावच्छिन्नत्वोपाधिभेदेन यः काल्पनिकभेदस्तद्ग्राहिवेदान्तिमतप्रकृतिसङ्गग्रहनयापेक्षया केवलज्ञानकेवलदर्शनसूत्राभिप्रायमभ्युपगच्छन्तो प्रवचनोपनिषद्वेदिमहातर्कवादिभगवच्छ्रीसिद्धसेनदिवाकरा न तु व्यक्त्या भेदं, केवलज्ञानव्यक्तेरेकत्वात्, किन्तु ज्ञानत्वदर्शनत्वधर्मोपाधिभेदेनैकस्यापि केवलज्ञानस्य भेदं कथयामासुः । ___तथा चाविच्छिन्नप्रावचनिकपरम्पराऽऽयाततत्तन्नयगर्भसूत्रतात्पर्यं स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धाय प्रतिपन्नवतां त्रयाणामपि सूरिभगवतां मध्ये नैकाऽपि स्वाभ्युपगतेऽर्थे भगवत्प्रणतिशास्त्रतात्पर्यबाधं प्रतिसन्धायैव पक्षपातेन तमर्थं श्रद्धत्ते इति तत्र शास्त्रतात्पर्यबाधप्रतिसन्धानाभाववति “विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम्,” इति लक्षणाऽसङ्गतेनैकस्मिन्नपि सूरिवरे आभिनिवेशिकमिथ्यात्वप्रसङ्गः । उक्तं च न्यायाचार्यश्रीयशोविजयोपाध्यायैर्ज्ञानबिन्दौभेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफंलयोस्सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः संग्रहं सिद्धसेनः, तस्मादेते न खलु विषमाः सूरिपक्षात्रयोऽपि(मी)।।२।। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.२९६) {पृ.२६८} 36. अयं च काणभुजराद्धान्तप्रवर्तकः टीकायामभिहितः, तन्मते च यद्यपि न सामान्यमानं विशेषमात्रं वा वस्तु, द्रव्यगुमक्रियाश्रितस्य सामान्यस्य नित्यद्रव्याश्रितस्य चान्त्यविशेषस्याभ्युपगमात्, तथापि तन्मूलमिदं प्रथमाभ्युपगममाश्रित्येत्थमुक्तमिति भावनीयम् । (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण · पृ.३१७) {पृ.२७८} 37. तत्र नामकरणसंस्काराधीनसंकेतशालिनी पारिभाषिकी। यथा चैत्रादिः। उपाधिप्रवृत्तिनिमित्तका औपाधिकी,

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462