Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

View full book text
Previous | Next

Page 433
________________ तत्त्वार्थाधिगमटीप्पणम् परिशिष्ट-४ 36. (अनुभावात्) - अनुभावश्च तथाविधसूक्ष्मज्ञानिगोचरः। कर्माणि हि पौद्गलिकानि भवन्ति, पुद्गलानां चात्यन्तात्यन्ताश्चर्यभूताऽनुभावसन्ततिश्छद्मजनमनोवचसां सर्वशश्चिन्तनकथनगम्या न हि भवति । यतो हि उदकस्फाटकस्फटिकरत्नस्य मध्यप्रविष्टस्य प्रभावात्समुद्रजलमपि विदीर्णपर्वतवद् द्विधा भवति । चुम्बकप्रस्तरश्च लोहसूचीमपि स्निग्धात्मेव समुत्पाटयति। गन्धकयोगात्कृष्णीभूय गतप्रायोऽपि पारदस्तकादिसम्बन्धेन कृत्वा कणशः पृथग्भवति, वशीकरणवल्लीविशेषात् चौराद्युपद्रवा न जायन्ते । इत्यादिवत्तीर्थकराख्यनामकर्ममहाराजाधिराजस्यातिशयाः सम्यक् श्रद्धेया भवन्ति । कोऽर्थः । यस्य कस्यापि सकर्णचेतःपाटवस्य प्रकारान्तरसहस्रैरपि ज्ञानावरणीयक्षयोपशमविशेषो न चैव स्यात्तस्यापि जन्तोस्तीर्थकरपार्थतः समुपविष्टस्य सतो जायते एव। भगवद्वचसां सर्वजगज्जनभाषानुगमनपरिणतस्वरूपत्वाद्, यथा तुल्यरसस्पर्शगन्धवर्णमपि पानीयं जलदात्पतितं वृक्षषने यथास्वभावतया परिणमतीति। श्रूयतां चापि, यतः कैश्चिद्भिन्नशः पृष्टं । “रविराव्रियते कस्मा-ल्लोहकारत्वधीः कुतः ?।। कस्माज्जीवस्य बन्धः स्याद्वद विश्वत्रयेश्वर ।।१।. धनयोगात्” इति भगवता प्रत्युत्तरितम् ।। (अ०१ सू०२०). (पृ.२२०) 37. (भवोत्पत्ति) - देवनारकाणां स्वभवधारणीयशरीरलाभेऽवश्यंभावी अवधिज्ञानावरणकर्मणः क्षयोपशमस्ततः ___ शिष्योपचाराय ‘भवप्रत्यय' इत्युच्यते परमार्थतस्तु सोऽपि क्षायोपशमिक इति (अ०१ सू०२२) (पृ.२३२) 38. (आसर्वलोकात्) - खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं जाणइ पासइ । उक्कोसेणं अलोए लोयप्पमाणमित्ताइं असंखिज्जाइं खंडाइं जाणइ पासइ। इति नन्दीसिद्धान्तः । इहाऽवधिज्ञानविषयोऽलोकस्यापि लोकप्रमाणाऽसंख्यातखण्डानि यावदुक्तस्ततः कथमासर्वलोकाद्वर्धमानकमित्युच्यते, नैव, सिद्धान्ते हि अवधेः शक्तिविषयो निर्दिश्यते, कोऽर्थः । यदि रूपिद्रव्याणि ....पर्यन्तमलोकेऽप्यभविष्यं स्तदाऽवधिज्ञानो तान्यप्यज्ञास्यदिति । (अ०१ सू०२३) (पृ.२४०) 39. (मनःपर्ययज्ञान)- मनःपर्ययज्ञानं मनःपर्यायज्ञानं मनःपर्यवज्ञानमित्यनर्थान्तरम् । (पृ.२४४) 40. (प्रतिपतति)- अतः कारणादेव धूमप्रभानरकाद्विकलेन्द्रियेभ्यश्च विपुलमतयो न समागच्छन्ति मुक्तियोग्यत्वात् । न हि खलु द्वित्रिचतुरिन्द्रिययोनितः पञ्चमादिनरकावनितश्च निर्गता नराः सिद्ध्यन्ति। ऋजुमतयस्तु तेभ्योऽप्यागच्छन्ति, मुक्तिगमनविकलत्वात्तेषाम् । कोऽर्थः ऋजुमतयोऽपार्धपुद्गलपरावर्तसंसारिणोऽपि भवन्ति । विपुलास्तु चरमदेहा एवेति ।। चउद्दसपुव्वी आहारगा य मणनाणी वीयरागा वि। हुन्ति पमायपरवसा, तयणन्तरमेव चउगइया ।।१।। अत्र ऋजव एव मनःपर्यायिणः, उपशान्ता एव च वीतरागा गृह्यन्ते, एकादशगुणस्थानवर्तिनामपि वीतरागत्वप्रतिपत्तेः ।। (अ०१ सू०२५) (पृ.२४८) 41. (विशुद्धतराणि) - इह विशुद्धिः सम्यक्त्वविनिर्मिता वेदितव्या। कोऽर्थः ?। अवधिज्ञानमभव्यानामपि भवति, विभङ्गस्याप्यवधिशब्दप्रतीतत्वात् । मनःपर्यायज्ञानं तु नियमाद्विनिर्मलं, न खल्विदमवधिज्ञानाख्यमध्यमपुरुषवत्प्रतिज्ञाशैथिल्यं भजते। मध्यमपुरुषा हि स्वार्थपरवशा उत्तममप्युपासते नीचमप्युपासते । एवमवधिरपि सम्यक्त्वभाजं पुमांसं परिचरति स एव पुमान् मिथ्यात्वं गतश्चेत्तदापि परि

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462