________________
तत्त्वार्थाधिगमटीप्पणम्
परिशिष्ट-४ 36. (अनुभावात्) - अनुभावश्च तथाविधसूक्ष्मज्ञानिगोचरः। कर्माणि हि पौद्गलिकानि भवन्ति, पुद्गलानां
चात्यन्तात्यन्ताश्चर्यभूताऽनुभावसन्ततिश्छद्मजनमनोवचसां सर्वशश्चिन्तनकथनगम्या न हि भवति । यतो हि उदकस्फाटकस्फटिकरत्नस्य मध्यप्रविष्टस्य प्रभावात्समुद्रजलमपि विदीर्णपर्वतवद् द्विधा भवति । चुम्बकप्रस्तरश्च लोहसूचीमपि स्निग्धात्मेव समुत्पाटयति। गन्धकयोगात्कृष्णीभूय गतप्रायोऽपि पारदस्तकादिसम्बन्धेन कृत्वा कणशः पृथग्भवति, वशीकरणवल्लीविशेषात् चौराद्युपद्रवा न जायन्ते । इत्यादिवत्तीर्थकराख्यनामकर्ममहाराजाधिराजस्यातिशयाः सम्यक् श्रद्धेया भवन्ति । कोऽर्थः । यस्य कस्यापि सकर्णचेतःपाटवस्य प्रकारान्तरसहस्रैरपि ज्ञानावरणीयक्षयोपशमविशेषो न चैव स्यात्तस्यापि जन्तोस्तीर्थकरपार्थतः समुपविष्टस्य सतो जायते एव। भगवद्वचसां सर्वजगज्जनभाषानुगमनपरिणतस्वरूपत्वाद्, यथा तुल्यरसस्पर्शगन्धवर्णमपि पानीयं जलदात्पतितं वृक्षषने यथास्वभावतया परिणमतीति। श्रूयतां चापि, यतः कैश्चिद्भिन्नशः पृष्टं । “रविराव्रियते कस्मा-ल्लोहकारत्वधीः कुतः ?।। कस्माज्जीवस्य बन्धः
स्याद्वद विश्वत्रयेश्वर ।।१।. धनयोगात्” इति भगवता प्रत्युत्तरितम् ।। (अ०१ सू०२०). (पृ.२२०) 37. (भवोत्पत्ति) - देवनारकाणां स्वभवधारणीयशरीरलाभेऽवश्यंभावी अवधिज्ञानावरणकर्मणः क्षयोपशमस्ततः
___ शिष्योपचाराय ‘भवप्रत्यय' इत्युच्यते परमार्थतस्तु सोऽपि क्षायोपशमिक इति (अ०१ सू०२२) (पृ.२३२) 38. (आसर्वलोकात्) - खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं जाणइ पासइ । उक्कोसेणं
अलोए लोयप्पमाणमित्ताइं असंखिज्जाइं खंडाइं जाणइ पासइ। इति नन्दीसिद्धान्तः । इहाऽवधिज्ञानविषयोऽलोकस्यापि लोकप्रमाणाऽसंख्यातखण्डानि यावदुक्तस्ततः कथमासर्वलोकाद्वर्धमानकमित्युच्यते, नैव, सिद्धान्ते हि अवधेः शक्तिविषयो निर्दिश्यते, कोऽर्थः । यदि रूपिद्रव्याणि ....पर्यन्तमलोकेऽप्यभविष्यं
स्तदाऽवधिज्ञानो तान्यप्यज्ञास्यदिति । (अ०१ सू०२३) (पृ.२४०) 39. (मनःपर्ययज्ञान)- मनःपर्ययज्ञानं मनःपर्यायज्ञानं मनःपर्यवज्ञानमित्यनर्थान्तरम् । (पृ.२४४) 40. (प्रतिपतति)- अतः कारणादेव धूमप्रभानरकाद्विकलेन्द्रियेभ्यश्च विपुलमतयो न समागच्छन्ति मुक्तियोग्यत्वात् ।
न हि खलु द्वित्रिचतुरिन्द्रिययोनितः पञ्चमादिनरकावनितश्च निर्गता नराः सिद्ध्यन्ति। ऋजुमतयस्तु तेभ्योऽप्यागच्छन्ति, मुक्तिगमनविकलत्वात्तेषाम् । कोऽर्थः ऋजुमतयोऽपार्धपुद्गलपरावर्तसंसारिणोऽपि भवन्ति । विपुलास्तु चरमदेहा एवेति ।। चउद्दसपुव्वी आहारगा य मणनाणी वीयरागा वि। हुन्ति पमायपरवसा, तयणन्तरमेव चउगइया ।।१।। अत्र ऋजव एव मनःपर्यायिणः, उपशान्ता एव च वीतरागा गृह्यन्ते, एकादशगुणस्थानवर्तिनामपि
वीतरागत्वप्रतिपत्तेः ।। (अ०१ सू०२५) (पृ.२४८) 41. (विशुद्धतराणि) - इह विशुद्धिः सम्यक्त्वविनिर्मिता वेदितव्या। कोऽर्थः ?। अवधिज्ञानमभव्यानामपि
भवति, विभङ्गस्याप्यवधिशब्दप्रतीतत्वात् । मनःपर्यायज्ञानं तु नियमाद्विनिर्मलं, न खल्विदमवधिज्ञानाख्यमध्यमपुरुषवत्प्रतिज्ञाशैथिल्यं भजते। मध्यमपुरुषा हि स्वार्थपरवशा उत्तममप्युपासते नीचमप्युपासते । एवमवधिरपि सम्यक्त्वभाजं पुमांसं परिचरति स एव पुमान् मिथ्यात्वं गतश्चेत्तदापि परि