________________
परिशिष्ट-४
तत्त्वार्थाधिगमटीप्पणम् 28. “अनर्थान्तरं" न अर्थानन्तरानित्यागमे। (अ०१ सू०१३) (पृ.१८१) 29. “अवग्रहेहापायधारणा” “विषय विषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तर
सामान्याकारविशिष्टवस्तुग्रहणमवग्रहः" १ । “अवगृहीतविशेषाकाङ्क्षणमीहा” २। “ईहितविशेषनिर्णयोऽवायः” ३ । स एव दृढतमावस्थापन्नो धारणा” ४ । “संशयपूर्वकत्वादीहायाः संशयाझेदः” । “कथञ्चिदभेदेऽपि परिणामविशेषादेपां व्यपदेशः” “असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्णस्वभावतयानुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चेति व्यतिरिच्यन्ते”। “क्रमोऽप्यमीषामयमेव, तथैव संवेदनत्वात्” । ‘एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च”। “अन्यथा प्रमेयानवगतिप्रसङ्गः”। “न खल्वदृष्टमवगृह्यते न चानवगृहीतं संदिह्यते न चासन्दिग्धमीह्यते न चानीहितमवेयते नाप्यनवेतं धार्यते”। इति स्याद्वादरत्ना
कराख्यन्यायशास्त्रे (अ०१ सू० १५) (पृ.१८८). 30. निश्रितं अनिश्रितं निश्रितमिति सापेक्षं, यथा कश्चित्कृष्णरज्जुमवलोक्य सर्प स्मरतीत्यादिवत् । अनिश्रितं
निरपेक्षं यथा स्वयमेव सर्पादिकस्मरणमित्यादि । (अ०१ सू०१६) (पृ.१९१) 31. “एतिहा” इतिह इति सम्प्रदायार्थमव्ययपदं ततः स्वार्थेण्यः। (पृ.२१३) 32. दशा ग्रन्थविशेषा इति। (पृ.२१६) 33. “अङ्गप्रविष्ट आचाराङ्गादि” एकादशसु आचारप्रभृतितो विपाकसूत्रपर्यन्तेषु क्रमशः पदद्वैगुण्यं भवति ।
यथा १८००० अष्टादशसहस्राणि पदानामाचाराङ्गे । अतः ३६०००, ७२०००, १४४०००, २८८०००, ५७६०००, ११५२०००, २३०४०००, ४६०८०००, ९२१६०००, १८४३२०००, द्वादशस्य दृष्टिपाताख्य महासमुद्रस्य पञ्चपदानि तद्यथा- परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५। तत्र पूर्वगताख्यचतुर्थपदे चतुर्दशापि पूर्वाणि गजप्रमितमषीपुञ्जलिखनविधिद्विगुणानि क्रमशः १, २, ४, ८, १६, ३२,६४, १२८, २५६, ५१२, १०२४, २०४८, ४०९६, ८१९२ इति । “आचाराङ्गादि” विवाहप्रज्ञप्तिः, विबाधप्रज्ञप्तिः, विविधप्रज्ञप्तिः, व्याख्याप्रज्ञप्तिः, भगवती इत्यनान्तरम् ।
(पृ.२१७) 34. (किंकृत इति) - केन कृत इति किंकृतः।। (पृ.२१९) 35. (तीर्थकरनामकर्मणः - यदागमः । “तिविहे आगमे पन्नत्ते । तं अत्तागमे, अणन्तरागमे, परंपरागमे” इति ।
आप्तागमाऽनन्तरागमपरंपरागमभेदात्त्रिविधो ह्यागमः । यथा अर्थतो द्वादशाङ्गी परमेश्वरस्य आप्तागमः । सा चैव सूत्रतो गणधराणामाप्तागमः, अर्थतश्च तेषामनन्तरागमः स्यात्, परमेश्वरेणैवाऽर्थप्ररूपणात् । “अत्थं भासइ, अरहा, सुत्तं गंथंति गणहरा निउणमिति वचनात् । महाराजाधिराजस्य तीर्थकरस्य सूत्रत आप्तागमो नास्तीत्यर्थः। ततो गणधरशिष्याणां सा चैव सूत्रतोऽनन्तरागमः। अर्थतस्तु परम्परागमः स्यात् । ततः परं प्रशिष्यादीनां सूत्रतोऽर्थतश्च परम्परागमः । नह्याप्तागमो नाप्यनन्तरागम इत्यर्थः। ३ आप्तागमो मूलपुरुषप्ररूपित उच्यते, अनन्तरागमस्तु द्वितीयपुरुषगृहीत उच्यते, अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परा परिपाटीत्यर्थः । सा च तृतीयपुरुषादिषु ज्ञेया । यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्युः। अर्हतां त्वेते परंपरागोचरास्तृतीयपुरुषा इत्यर्थः ।। (पृ.२२०)