________________
तत्त्वार्थाधिगमटीप्पणम्
मिध्यात्वमोहस्यापि भवति अत इदं प्रोच्यते । ननु सप्तप्रकृतीनामनन्तानुबन्धिकषायचतुष्कदर्शनमोहत्रिकताप्रसिद्धानामुपशमादिभ्य औपशमिकादिसम्यक्त्वोत्पत्तिः स्यात् ततः कथमनन्तानुबन्धिनः कषायाः सम्यक्त्वावरणत्वेऽपि नोपात्ता इति न वाच्यम् । चारित्रमोहस्य पञ्चविंशतिप्रकारत्वात् । निमित्तसद्भावो हि सम्यक्त्वस्याऽनन्तानुबन्ध्युपशमादितः प्रवर्तते, न पुनस्ते सम्यक्त्वावरणानि भवितुमर्हन्ति। यथा केवलज्ञानस्य मोहक्षयः कारणमेव राजते, तदसद्भावे केवलित्वानुत्पादात् परं न हि मोह: केवलज्ञानावरणमिति वक्तुमुचितो भवतीति, अन्यथा अनन्तानुबन्ध्युदयविरहिते मिश्रगुणस्थाने सम्यग्दर्शनमेव चेष्टेत, सासादनगुणे च मिथ्यात्वमेव चेष्टेत, न च तथा श्रूयते, सम्भवति वा, तस्मादनन्तानुबन्धिचतुष्टयं चारित्रावरणमास्ते न पुनः सम्यगा ( क्त्वा ) वरणम् ।। (अ०१ सू०७) (पृ.१२७)
22. ं “गत्यादिद्वारे सद्भूतप्ररूपणा” सद्भूतप्ररूपणेति गतिः पञ्चधा । तत्र पञ्चस्वपि सम्यक्त्वं लभ्यते, पञ्चमी त्विह सिद्धिरिति १ । इन्द्रियाणि पञ्च तत्र पञ्चेन्द्रियाणामेव सम्यक्त्वं, विकलेन्द्रियास्तु सास्वादनापेक्षया कदाचित्सम्यक्त्विनः २ | कायाः पृथिव्यप्तेजोवायुवनत्रसाः । इह त्रसा एव सम्यक्त्ववन्तः ३ । योगा पञ्चदश, तद्यथा सत्यमनः, असत्यमनः, सत्यासत्यमनः, पर्यायसत्यमनः । एवं वचोपि चतुष्प्रकारम् । तया औदारिकमौदारिकमिश्रं वैक्रियं वैक्रियमिश्रमाहारकमाहारकमिश्रं कार्मणमिति । तत्र सर्वेष्वपि सम्यक्त्वं लभ्यते ४। कषायाः पञ्चविंशतिः, तत्रानन्तानुबन्धिचतुष्कवर्जं सम्यक्त्वे स्यात् । सास्वादनं तु सर्वकषायेषु ५। वेदाः । पुंस्त्रीषण्ढाः सर्वे ६ । लेश्याः कृष्णनीलकापोततेजःपद्मशुक्लाः सर्वा अपि द्रव्यतः । भावतस्तु प्रशस्तलेश्यात्रिकं ७ । सम्यक्त्वद्वारे तत्प्रतिपक्षमिध्यात्वमिश्रभेदौ, बहिः कार्यों, विशेषावबोधाय सास्वादनं तु ग्राह्यम् ८। ज्ञानद्वारे अज्ञानत्रयं प्रतिपक्षत्वात् त्याज्यं ९ | चारित्रद्वारेऽसंयमः संयमासंयमश्चापि ग्राह्यः १० । आहारका अनाहारकाश्च सम्यक्त्विनः ११ । उपयोगद्वारे अज्ञानत्यागः १२ ।। (पृ. १४१) 23. “ सम्यग्दर्शनम् ” । एतेन छद्मस्थसम्यकत्वं सर्वज्ञसम्यक्त्वमित्याह । । (अ०१ सू०८) (पृ.१४६) 24. “ज्ञानं” ज्ञानमित्येकवचनं मूलतो ज्ञानैकताज्ञापकम् ।। (अ०१ सू०९) (पृ. १५८)
25. “परोक्षं” इह “अक्षोटि व्याप्तौ” अक्ष्णुते ज्ञानेन विश्वं व्याप्नोतीत्यक्षो जीवस्तस्मात्परं परोक्षमिन्द्रियजनितज्ञानमित्यर्थः । एतेन नेत्रविषयस्यापि परमार्थतः परोक्षताऽवगम्या । कथमन्यथा सर्वदाप्यष्टशतयोजनोपरि चरन् सूर्यः समुद्गमनमध्यवर्तनास्तमयनवेलासु नेत्राभ्यामध उच्चैरधश्च विलोक्य । ( अ. १ सू.११) (पृ.१६५)
१३
परिशिष्ट- ४
26. “ प्रत्यक्षपरोक्षे” इति । परोक्षप्रत्यक्षयोः को विशेष इत्यत्रोच्यते - परोक्षज्ञानी स्वतः परतो वर्तमानं परत एव विलोक्यति । प्रत्यक्षज्ञानी तु स्वस्मिन्नेवेति । यथा हि दूरस्थाः पर्वता दर्पणमध्ये प्रतिबिम्ब्यन्ते यथारूपाः । एवमात्मनः स्वरूपमध्यग एव वस्तुप्रतिभासो भवति । (पृ. १७५)
27. “ अनुमानोपमानागमार्थापत्तिसंभवाभावेति । ” पर्वतोऽयं वह्निमानिति अत्र धूमवत्त्वात्, धूमं दृष्ट्वाऽग्नेरुपलब्धिरनुमानमेवमन्यत्रापि १ । सरः समुद्र इव भरितमस्तीस्युपमानं यतोऽत्र सरोवर्णनयाSब्धेर्जलनिधितत्त्वोपलब्धिः २ । आगमः शास्त्रं ३ । अर्थापत्तिरदृष्टवस्तुनोऽर्थोपलब्धिः ४ । स्त्रीणां गर्भः संभवः ५ । पुंसां गर्भो नेति तु अभावः ६ एवम् । (अ० सू०१२ ) (पृ.१७६)