________________
परिशिष्ट-४
तत्त्वार्थाधिगमटीप्पणम्
१२
यावत्। अन्यानन्यांश्च धर्मान्प्रतिपद्यन्ते इति । जीवास्तावद् देवमनुजादीन्, पुद्गलाः कृष्णादीन् । धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति । यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते इति वृत्तौ हरिभद्रपादाः ।। (पृ.९३)
16. “ प्राभृतज्ञ” इति आगमे पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं तच्च पूर्वेऽस्ति यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति न चैवमहमेव वच्मीति भावः (अ०१ सू०५) (पृ. १०४)
17. “अरूपीति” नास्ति रूपी रूपवानित्यरूपी, नासौ रूपादिधर्मसमन्वित इत्यर्थः छद्मस्थस्य यद्यपि कर्मपटलोपरागस्तथा(प्या) त्मा स्वं स्वभावं न त्यजतीति । आगन्तुकं हि कर्मरजो मलिनयत्यात्मानम्, अभ्रादीव चन्द्रमसमिति ।। (पृ. ११७)
18. “नोस्कन्धा” इति । तथा नोस्कन्धः, अरूपत्वादेष, न स्कन्धः पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणात्तु स्यात्स्कन्धः । अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः, सम्यग्दृष्टिः । । (पृ.११७)
19. “नोग्राम इति । " एवं नोग्रामोऽपि वक्तव्यः, 'चउसहिं भूयग्गामेहिं' इत्यागमे भूतग्रामाश्चतुर्दश सन्ति । ततश्च न कश्चित्सकलो ग्रामः सम्यग्दृष्टिः । । (पृ. ११७)
20. “जीवस्याजीवस्य इत्यादि भङ्गाः ।" यदा एकं साध्वादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते, तदा निमित्तापेक्षया जीवस्यैव १, इह यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः १, एवमर्हत्प्रतिमापेक्षयाऽजीवस्य २, द्वयोः साध्वादीनामन्यतमजीवयोर्निमित्तयोरेवाऽपेक्षया जीवयोरिति भङ्गः ३ । एवं द्वयोरर्हत्प्रतिमयोः ४। बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः ५ । एवं बहूनामर्हत्प्रतिमानां ६ | सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापेक्ष्यते, परसंयोगस्यैवाऽधिकारविवक्षणात् । उत्तरसंयोगे, आत्मपरसंयोगचिन्ता कार्या । तत्र जीवस्य १ अजीवस्य २ इत्येतौ भङ्गौ न स्तः, एकाकिनो ह्युभयसंयोगानौचित्यात्। अथान्ये भङ्गास्तु संभवन्त्विति न वाच्यम् । यस्माज्जीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहणं द्वयोः कयोश्चिन्निमित्तभूतयोरेव ग्रहः क्रियते, तौ च परसंयोगविश्रुतावतस्त्याज्यो जीवयोरिति तृतीयः भङ्गः । एवमजीवयोर्निमित्तभूतयोः । जीवानां निमित्तभूतानां अजीवानां निमित्तभूतानामिति पडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः, ते त्विमे जीवस्य जीवस्य १, जीवस्य अजीवस्य २, जीवस्य जीवयोः ३, जीवस्य अजीवयोः ४, जीवस्य जीवानां ५, जीवस्य अजीवानां ६ इति । अत्र धारकपुरुषस्य तथा निमित्तभूतस्य कस्यचिदेकस्य द्वयोर्बहूनां च ग्रहणादुभयनयसंयोगाऽविरोधसिद्धिः । न च वाच्यं जीवयोरित्यादिभङ्गेषु जीवस्य च जीवस्य चेति समासबलादुभयसंयोगो भविष्यति । एकपदविभक्त्या एकस्य संयोगस्यैव ग्रहणोपदेशः समाधीयते । (पृ. १२० )
21. " तदावरणीयस्य कर्मणो दर्शनमोहस्य च " इह सम्यक्त्वोत्पत्तौ ज्ञानावरणीयकर्मणोऽपि पराजयो भवति,