________________
तत्त्वार्थाधिगमटीप्पणम्
परिशिष्ट-४ यदाहुः- “जीवाजीवा पुण्णं, पावासवसंवरा य निज्जरणा। बन्धो मुक्खो य तहा, नव तत्ता हुंति नायव्वा ।।१।।" इति। अत्राश्रवतत्त्वं जलरूपम बन्धतत्त्वं बीजरूपम पुण्यपापे च शाखारूपे, न च बीजतःसकाशाच्छाखा भिन्नैवाऽभिन्नैव वेति वक्तुं पार्यते। भिन्नैव यदि, बीजमन्तरेणापि शाखाप्रादुर्भावः स्याद्, न चैवं विलोकयामः। अथाभिन्ना, तदा युगपदेव बीजशाखे भवतः, नैवमपि पश्यामः । बीजवपनकालादङ्कुरादिनिर्गमकालस्याऽन्यत्वात् । न च वाच्यं बन्धः प्रकृतिस्थित्यनुभावप्रदेशभेदाच्चतुष्प्रकारस्तदा भूयोऽपि पुण्यपापयोः कः प्रतिविशेष इति अत्रोच्यते- बन्धनं बन्धः कर्मणोऽनभ्युदयसमय एव, तदपेक्षया मनुष्यतिरश्चामपि बद्धदेवत्वानां देवतात्वसंभवः, पुण्यतत्त्वमपेक्ष्यते तदा स्पष्टोदितदेवगतिनामकर्माण एव देवत्ववक्तव्या भवन्ति। अथ कर्तृकरणयोरैक्योपचारात्त्रीण्येव तत्त्वानि स्युः ज्ञेयहेयोपादेयभेदानि ।। यदुक्तं___ “हेया बन्धासवपुण्णपावा, जीवाजीवा य हुँति नेयाओ। संवरनिज्जरमुक्खा, तिन्नि वि एए उवाएया ।। ।।” इति जीवाजीवयोः कथञ्चिदभेदः, अन्यतमस्मिन्नपि जिनात्मकज्ञेये सकलज्ञेयानां प्रतिबिम्बितत्वात् । पुण्यपापाश्रवबन्धानां च कथञ्चिदैक्यम हेयत्वसाधर्म्यात् । जलबीजशाखादिवत् तथा संवरनिर्जरामोक्षणामपि कथञ्चिदैक्यम् ।।४।।
___ न हि संवरं विना निर्जरा भवति, नापि निर्जरामन्तरेण मोक्षः सम्प्राप्यते। कथञ्चिच्च जीवादिसर्वेषामप्यभेदः, “सर्वमेकं सदविशेषात्” इति सङ्ग्रहापेक्षाप्रवृत्तेः। कथञ्चिच्चाऽतीवसंख्याकत्वं
व्यवहाराख्यनयप्रवृत्तेः। सर्व एष भाषा अनन्तनयात्मका न चैकान्ताः (अ.१ सू.४) (पृ.७७) . 14. “एभिर्नामादिभिरिति” । अत्राऽनादिस्वयंसिद्धधर्मास्तिकायरूपलोके नामस्थापनाभ्यामुपकृतानि सर्वाणि भवन्ति,
तदनर्हाणां सर्वेषामप्यवस्तुत्वात् । तद्यथा- नामाऽत्युपक्रियमाणा धर्माधर्मादीनां प्रतीतिरास्ते। तद्विरहे किञ्चिन्मात्राया अप्यप्राप्तेः। स्थापनाऽप्युपक्रियमाणा च तदवगाहनासमुपलब्धिः समस्ति। न खलु तद्विप्रयोगेऽद इदमेतदिति सम्प्राप्त्यौचिती स्यात् । नाप्यद इदमेतदित्येतेषामविषयीभूते क्वचिदपि वस्तुत्वं प्रवर्ततेमा च कश्चिद्विवदता उपचारोऽयमिति । उपाचारमन्तरेण परमार्थाऽनवाप्तेः। उपचारपरतन्त्रत्वात्परमार्थस्य । न खल्वेकाख्यमङ्क विशिष्टादिबीजभूतं विना तदतिवृद्धानां द्वित्रिचतुराद्यङ्कानामपि सतत्वभणितिस्तत्परिज्ञानं वा लेशतोऽपि भवितुमर्हतीति ।। अत्रायं भावः, यथा गौतमस्वामी गौतमशब्दे जैनानां तद्विज्ञातृणां वाऽन्येषां मनसा चिन्त्यमानो भवति सत्य तदा तस्य प्रभो मनिक्षेपः. न च वाच्यं मिथ्यादृष्टिप्रसिद्धगौतमाख्यविप्रर्षिचिन्तायामपीति । यतो हि प्रोक्तमास्ते “ अन्नत्थ वंजणे निवडियंमि जो खलु मणोगओ भावो । तत्थ उ मणं पमाणं न पमाणं, वंजणच्छलणा ।।१ ।। इति अत एव स्थापनानिक्षेपोऽप्येवं भाव्यः। कथमन्यथा परतीर्थिकदेवालयवर्तमानजिनेश्वरप्रतिमाप्रणत्य स्यात् नोचिता। भण्यते चरूद्रादिसामान्यमसौ स्थितश्चेन्न वन्दनीयो हितमूहमानैः । अधः प्रजानां वसतः सतोऽपि, नृपस्य यस्मान्महिमा
क एव ।।१।। इति ।। (पृ.८३) 15. “धर्मादीनि पञ्च सगुणपर्यायाणीति।” गत्याद्यगुरूलघुप्रभृतिपर्यायभाजीति। एतत् स्यात् यद्येन धर्मेण
समन्वितं तं धर्मं न कदाचिज्जहाति तेन सदान्वितमास्ते । इत्येतच्च न प्राप्तिलक्षणानि परिणामलक्षणानीति