SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ १० परिशिष्ट-४ . तत्त्वार्थाधिगमटीप्पणम् निष्पणतत्त्वसमुच्चयनयगमरत्नातिपूरितं परितः। तत्रतनावलिकागृहगणमिव गणिपिटकमभिवन्दे ।।२ ।। तस्य सदाप्यवकीर्णक-सदनसरूपाननेकसंख्याकान् । भृशकमुपासे समयानुत्कालिककालिकप्रभिदा ।।३।। इति ।। (कारिका गा.१९) (पृ.२०) 9. प्रति “चिक्रमिषेदिति”। प्रतिक्रमितुमिच्छेदिति प्रतिचिक्रमिषेत् । (कारिका गा.२५) (पृ.२२) 10. “नर्ते” इति। विनार्थे ऋते इत्यव्ययं ततः पञ्चमी। (पृ.२४) 11. “प्रवक्ष्यामीति” उमास्वातिवाचका एवमाहुः, (का.गा.३१) (पृ.२४) 12. “सम्यग्दर्शनमिति”। दर्शनं द्विधा द्रव्यतो भावतश्च। तत्र द्रव्यतश्चक्षुरचक्षुरवधिकेवलानि, भावतस्तु सम्यक्त्वमित्येतदत्र गृह्यते ।। “चक्रद्वयवच्छकटस्य"। न हि खल्वेकेनैव चक्रेण शकटे गमनव्यवहारः । त्रयाणां ग्रहणमिति । ननु ज्ञानसम्यक्त्वयोः कः प्रतिविशेष इति अत्रोच्यते-सम्यक्त्वं खलु कथञ्चिज्ज्ञानमेवाऽस्ते, कथंचिच्च तद्भिन्नमिति अपक्वेक्षुरससमानं हि ज्ञानं, तदेव चाऽग्निपक्वतुल्यं दर्शनम् । न च पक्वेक्षुरसस्य अपक्वेक्षुरसस्य स्वादापेक्षयापि मिथः समानतेति वक्तुं पार्यते, तस्मादपक्वतः सकाशात्पक्वस्यानन्तगुणमधुरत्वात् । ननु ज्ञानस्यावरणं ज्ञानावरणीयं कर्म भवति, सम्यक्त्वस्य तु दर्शनमोह एव वर्तते, तत्कथं भवानेतद् ब्रूते ज्ञानसम्यक्त्वयोरैक्यमपीति चेत् । श्रूयतां मोहावरणीयशब्दयोरर्थः क्रियते, स चैवं-मीहयति पातयतीति मोहः, तत्त्ववृणोत्याच्छादयतीति भणितं भवति । अथ विलोकय यथा सुवर्णं तदीयखानौ धूलिभिरावृतं लभ्यते, तथैव ज्ञानं ज्ञानावरणीयेन कृत्वाऽऽच्छादितं जानीयाः। यथा चाग्निसंयोगतो रजःप्रणाशात्तदेवात्र स्व(ण) ताप्रसिद्धं निर्गच्छति तथैव सामग्र्या ज्ञानावरणीयपराजयतो ज्ञानावकाशः। यथा पुनः कलाकुशलस्य स्वर्णकारस्य हस्ते प्राप्तं तदेव तथाभूतैः कैश्चित्सुश्लिष्टभास्वरताहेतुभिः शस्त्रैः स्पष्टालङ्कारत्वविभासमानं भवति, तद्वत्तदेवाऽनन्तगुणविशुद्धपर्ययं भूत्वा सम्यक्त्वं दर्शनं रूचिर्दीप्तिर्दृष्टिदृक श्रद्धानमास्तिक्यमित्येवमादिभिःकृत्वा शब्दान्तरितं स्यात् । न च दीप्तिभिन्नैवाऽभिन्नैव वेति वक्तुं पार्यते। भिन्ना यदि सुवर्णाद्दवीयसी स्यात्, न च तथा पश्यामः । अभिन्ना यदि, सूवर्णताप्राकट्यादेवाऽसौ युज्यते, न च रजोविरहमात्रेणैव दीप्तिं प्रतीमः, अत एव दर्शनमोहो ज्ञानप्रतिष्ठितदर्शनस्य विशदताया इति यावत्पातयिता मन्तव्यः । आवरणं तु वस्तुतः प्रभाया:सुवर्णप्रतिष्ठितत्वाद्धूलिरेव, न पुनः शस्त्रविशेषानवाप्तिरिति । किं चान्यत्-पृथिव्युदरखनितपाषाणवज्ज्ञानं तदेव चातिसुश्लिष्टभास्वरतुल्यं दर्शनम्, तदेव टंकादिसुघटितार्हत्प्रतिमासमानं चारित्रं, तस्या एव प्रतिष्ठाविभूतिवदर्हद्धर्मवेषः, स च सुतरां प्रणिपत्यः । अथवा कूपनिर्यातजलवज्ज्ञानम् । तदेव निर्विषतुल्यं दर्शनमित्यादि । “नादसणस्स नाणं, नाणेण विणा न हुंति चरणगुणा। अगुणस्स नत्थिं मोक्खो, नत्थि अमोक्खस्स निव्वाणं ।।१।।” इत्यागमाद् (प्रथम अध्याय १ सूत्र) (पृ.२६) 13. “तत्त्वमिति” जीवाजीवादयः सर्वे एव पदार्था ज्ञाताःसन्तस्तत्त्वं भवति। न च केवलं जीवमात्रश्रद्धानतः सम्यक्त्वं स्यात्, नाप्यजीवमात्रश्रद्धानतः, एवं सर्वत्र योजना, किन्तु भगवत्प्रणीतसर्वश्रद्धानमेव सम्यक्त्वम् । ततः एकवचनं तत्त्वमिति । तथा अमीषामेव सप्तानां नवसंख्याकत्वमपि नयवादान्तरेणास्ते।
SR No.005749
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorUdayprabhvijay
PublisherVijay Kesharchandrasuri Foundation Girivihar Turst
Publication Year1950
Total Pages462
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy