SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमटीप्पणम् परिशिष्ट-४ “अधमतम” इति षोढा मनुष्या यथाऽधमतमो विमध्यमो मध्यम उत्तम उत्तमोत्तम इति। तत्राऽतिशयेनाऽधमोऽधमतमो लोकद्वयफलविराधको वागुरिकादिवत् । अधमस्त्विह लोकस्याराधको भवान्तरविराधकः प्रमत्तनृपवत् । अप्राप्तो मध्यमावस्थां विभध्यम इत्युच्यते । जन्मद्वयफलाकाङ्क्षी व्यवहारिसार्थवाहवत् । मध्यमः परलोकफलाभिलाषी सांन्यासिकादिवत् । यतस्तेषां निर्जरानपेक्षं तपो भवतीतिह- आगमः “नो इहलोगट्ठयाए तवमहिट्ठवि(ट्ठि)ज्जा, नो परलोगट्ठाए तवमहिट्ठवि(ट्ठि)ज्जा" इति। यद्यपि ते केचिन्मुक्त्येषिण एव वयमित्यारटन्ति, तथापि नास्ति भावनिर्जरापेक्षा इन्द्रादिपदव्या अपि मुक्तिशब्देन तेषां प्रसिद्धेः ।। लोकद्वयफलानभिलाषी केवलनिर्जराप्रवृत्तो ह्युत्तमो जैनचारित्रिक एव। उत्त मोत्तमस्तु श्रीतीर्थकर एवेति ।। (कारिका गाथा ४) *(पृ.१४) 3. “तीर्थप्रवर्तनफलमिति” तीर्थकरनामप्रेरित एव भगवान्परार्थव्यसनी निष्कामं भवति । ।(कारिका गाथा ९) (पृ.१८) 4. ज्ञातेति, ज्ञाताश्च ते इक्ष्वाकवः, अत्रापत्यार्थोत्पन्नाऽण्प्रत्ययलोपः। “नायाणं खत्तियाणमि"त्यागमः ।। (का.गा.११) (पृ.१९) “सेन्ट्रैरिति” इह लौकान्तिकानामिन्द्राभावेऽपि सम्यक्त्वसाधर्म्यात्सेन्फ्रेरित्युच्यते ।। यतः- “इंदत्तं चक्कित्तं, पंचाणुत्तरविमाणवासित्तं। लोगंतियदेवत्तं, अभव्यजीवेहिं नो पत्तम् ।।” १।। इति (कारिका गा-१४) (पृ.१९) 6. “कृतसामायिकेति”। करेमि सामाइयं इत्याधुच्चार्येत्यर्थः, अत्र ‘भन्ते' इति पदं भगवान्न भणति । भंतेत्ति न भणन्ति जीतमि'त्यावश्यकचूर्णी (कारिका गा.१६) (पृ.२०) “सम्यक्त्वज्ञानेति”। भगवद्भाषितप्रवचनमशेषश एव श्रद्धीयते येन तदेव समयक्त्वं 'सव्वगयं सम्मतं' इति वचनात् । तथा जिनवदनविनिर्गतं पदमेकं न श्रद्दधाति, शेषसकलसिद्धान्तं श्रद्दधाति, सकलसिद्धान्तं न श्रद्दधाति, सकलसिद्धान्तं न श्रद्दधाति, पदमेंक च श्रद्दधाति, नैतत्सम्यग्दर्शनं, सर्वगतत्वव्याधातात्, यद्यदसर्वगतं तत्तन्मिथ्यात्वं, प्रमाणविरहितत्वात् । न खल्वेक प्रदेशमात्रेणाप्यूनत्वाभिगृहीताः शेषाऽसङ्ख्येयप्रदेशाः संमानिता अपि जीवस्य जीवत्वं लभन्ते, जीवादेव्यस्वरूपत्वात्, ऊनतायां च द्रव्यत्वाऽयोगात् । तथा जीवदेशो जीवप्रदेशो वा इत्यपि न ते वक्तुं पार्यन्ते, देशप्रदेशयोरखण्डत्वाऽपेक्षयैव भवनात्, अखण्डत्वस्य च सर्वज्ञैकान्तगोचरयथास्थितत्वात् । अतो हि नायं जीवो नापि जीवदेशो न च जीवप्रदेशः नाप्यजीवो नाजीवदेशो नाजीवप्रदेशो वा, सिद्ध्यत्येव चैवमसतोऽपि वस्तुतावादः, स चानन्तभवपरम्परादुःखहेतुः ।। (कारिका गा.१७) (पृ.२०) ___ “द्विविधमिति”। द्विविधमङ्गप्रविष्टानङ्गप्रविष्टभेदात्, अनेकविधं प्रकीर्णकमेदात् । स्याद्वादमहानगरस्यो त्तराध्ययनप्रमुखानि प्रकीर्णकमन्दिराणीव । द्वादशविधं दृष्टिवादपर्यन्तभेदैरङ्गः, स्याद्वादमहानगरे द्वादशाङ्गानि आवलिकामहामन्दिराणीव । यतो भण्यते च प्रवचननगरप्रतरे, विराजमानं विचालशः सुतराम् । आवश्यकमिदमिन्द्र-कमन्दिरसदृशं चिरं जयति ।।१।। *. ( ) अंतर्गत ५२ प्रस्तुत अंथन से पानामाना छे ४ पानामोम मा टिप्पणिमोना नं५२ अध्या छ.
SR No.005749
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorUdayprabhvijay
PublisherVijay Kesharchandrasuri Foundation Girivihar Turst
Publication Year1950
Total Pages462
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy