________________
परिशिष्ट-४
तत्त्वार्थाधिगमटीप्पणम् सूर्यप्राथम्यं प्र(ति)सिद्धेरित्युत्पलचन्द्रिकायाम् । अत एव- “असुरा नागा विज्जू सुवण्णग्गीवाउथणिया य । उदही दीव दिसाक् विय दसभेया भवणवासीणं ।।३ ।। इति जिनभद्रगणिक्षमाश्रमणाः । “व्यन्तरा: किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः" इति। अत्र “वाणमन्तरा अट्ठविहा पन्नत्ता। तं० किण्णरा किंपुरिसा महोरगा गन्धव्वा जक्खा रक्खसा भूया पिसाया”। इति “प्रज्ञापनोपाङ्ग” वचनमाराधितम् । “सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे चेति” । अत्र प्रथमविभक्तित्रयत इन्द्रदशकं ज्ञापितं । अवेयकानुत्तरान्तराले विमानान्तराणि न ज्ञापितानि । विजयादिचतुष्कपृथग्निर्देशतो “जयन्ताओ देवलोगाओ बत्तीसं सागरोवमट्ठिइयाओ, अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमट्टिइयाओ, इति तादृशाभिप्रायि “ज्ञाताधर्मकथादशश्रुतस्कन्ध” वचनाराधना कृता। “पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु” इति । अत्र मिश्रलेश्याकत्वं न ज्ञापितम् । प्राग्वेयकेभ्यः कल्पा" इति । अत्र कल्पेष्वहमिन्द्रोत्पत्तिर्निपिद्धा । “ब्रह्मलोकालया लौकान्तिका” इति। अत्र लोकान्तिकसाहचर्यतः पञ्चमस्वर्गस्याखण्डगोलकता. ज्ञापिता । परतः परत: पूर्वानन्तरेति । अत्र तृतीयादि गोलकोत्तरदले साधिकस्थितिर्न ज्ञापिता । “अजीवकाया धर्माधर्माकाशपुद्गलाः"। द्रव्याणि जीवाश्च” इति । अत्र कालस्य गौणद्रव्यत्वं ज्ञापितं नाणोरिति । अत्र पुद्गलशब्दानुवृत्त्या पुद्गलाणुरेव ज्ञापितः ।। “वर्तना परिणामः क्रियापरत्वापरत्वे च कालस्य" इति । अत्र कालो द्रव्यचूलेति ज्ञापितो यथा सम्यग्मोहः कर्मचूलेति । “कालश्चेत्येके” । “सोऽनन्तसमयः”, इति । अत्र कालस्यासंख्याणुकत्वं न ज्ञापितं । “तद्भावः परिणामः” । “अनादिरादिमांश्च” । “रूपिष्वादिमान्” । “योगोपयोगी जीवेषु” इति । अत्रोपयोगी भिन्नकालीनतया ज्ञापितौ । दर्शनविशुद्धयादिसूत्रे उत्तरगुणापरनामकं शीलं मूलगुणापरनामकं व्रतं, शीलोपलक्षितैव्रतैर्जिननामाश्रवविंशतित्वपूर्तिः। मारणान्तिकी संलेखनां जोषितेति । अत्र संलेखना द्वादशतो बहिः सर्वान्तर्वतित्वात्सर्वादिवर्तित्वेन सम्यक्त्वमिव । सद्वेद्यसम्यक्त्वादिसूत्रे सम्यक्त्वस्य शुद्धपुञ्जत्वात्, हास्यरत्योः पुण्याश्रवं विनानुपपत्तेः, पुरुषवेदस्य पवित्रकीर्तित्वात्पुण्यत्वविवक्षा। क्षुत्पिपासादिसूत्रे नाग्न्यशब्दतः “जस्सट्ठाए कीरति नग्गभावे मुंडभावे” इति प्रवचनपदाराधना ज्ञापिता ।
, “एकादश जिने” इति । अत्र क्षुधादिपरीसहाभावो न ज्ञापितः । “बादरसम्पराये सर्वे” इति अत्र जिनानन्तरं बादरसम्परायज्ञापना जिनेऽस्मद्वत्परीषहा इति ज्ञापितम्।
“ज्ञानदर्शनचारित्रोपचार” इति । अत्र दर्शनस्य प्राथम्यं न कृतम् । “आमुहूर्तात्” इति । अत्र सर्वस्यापि ध्यानस्य नाधिकं स्थिति पिता। “उपशान्तक्षीणकषाययोश्च” इति । अत्र पूर्वधरापराणां श्रेणिद्वये धर्मध्यानं ज्ञापितम् । “तत् त्र्येककाययोगायोगानाम्" इति अत्र चरमदशात ऋते केवलिनो ध्यानरहिताः । क्षेत्रकालगतिलिङ्गादिसूत्रे स्त्रीलिङ्गिनामपि मुक्तिः । इत्यतो नमस्तीर्थाय ।। नमोऽस्तु वाचकमुख्यायेति मुख्यत्वं च उमास्वातेः पूर्वंगतकियदूराध्येतृत्वात्, तथा चोक्तम्, निरन्तरमपि त्रिजगज्जनराजीवराजीप्रबोधकरणैकतानाय तीर्थकरमहामार्तण्डाय || पसमरइपमुहपयरणपंचसया सक्कया कया जेहिं । पुव्वगयवायगाणं तेसिमुमासाइनामाणं ।।१।। पडिहयपडिवक्खाणं पयडीकयपणयपाणिसुक्खाणं। पणमामि पायपउमं विहिणा विणएण निच्छउमं ।।२।। इति ।
पूर्वगताऽवस्थानं च चरमपरमेश्वरनिर्वाणाद्वर्षसहस्रं । यावदासीद्भगवत्यङ्गवचनप्रामाण्यात् ।। (पृ.१)