SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ परिशिष्ट-४ ।। ॐ अहँ नमः ।। १श्री चिरंतनाचार्य विरचित ।। श्री तत्त्वार्थाधिगमटीप्पणम् ।। 1. ॐ नमः पार्थाय । उमास्वातिर्न बोटिको, वाचकपदवीमत्त्वाद्, नागार्जुनादिवत् । उमास्वातिर्न बोटिकस्तत्त्वार्थप्रकरणं प्रति कर्तृत्वात्प्रशमरत्यादिप्रकरणं प्रतीव। यतस्तत्र सूत्रम्- “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति। अत्र सम्यग्दर्शनस्य प्राथम्यं शास्त्रयोजनानुग्रहार्थम्, अत एव “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इत्येकसूत्रेणापि तोपः, “सव्वगयं सम्मत्तमिति” वचनात् । ज्ञानं प्रति नैवं सूत्रसंतोषस्तथाविधबहुलप्रकारित्वाच्चारित्रं प्रतीवेति । “जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति” । अत्र पुण्यपापयोः परान्तर्भावः शास्त्रयोजनानुग्रहार्थः । अत एव “सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्”। “अतोऽन्यत् पापमिति” सूत्रसन्तोपः। . “विशुद्ध्यप्रतिपाताभ्यां तद्विशेष” इति । अत्र विपुलमतित ऋजुमतेः क्षेत्रतया वैषम्यं न ज्ञापितम् । औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेति। अत्र मिश्रशब्दस्य भिन्नविभक्तिकतयैकस्यैव कर्मण उदीर्णानुदीर्णतावस्थापेक्षं क्षयोपशमौ ज्ञापितौ। “सोऽष्टचतुर्भेदः” इति । अत्र दर्शनोपयोगस्य यशःप्रधानता न ज्ञापिता। “पृथिव्यम्बुवनस्पतयः स्थावराः। तेजोवायूद्वीन्द्रियादयश्च त्रसाः” इति। अत्र तेजोवाय्वोभिन्ननिर्देशतः “तओ थावरा पन्नत्ता। तं० पुढवीकाइया आउकाइया वणस्सइकाइया। तओ तसा पन्नत्ता। तं० तेउकाइया वाउकाइया तसकाइया” इति प्रवचनभक्तिमता लब्धित्रसत्वं ज्ञापितम्, “रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोधः पृथुतराः” इति। अत्र सप्तशब्दस्य भूमिविशेषणता ज्ञापिता, अत एव स्वर्गसूत्रे नवसु क्रैवेयकेष्वित्यत्र नवन्शब्दस्यापि पटुप्रैवेयकविशेषणता । “प्राग्मानुषोत्तरान्मनुष्या" इति। अत्र- मनुष्यक्षेत्रतो बहिर्मनुष्याणां गमनं न निषिद्धं, त्रसनाडीओ बहिस्रसाणामिव । “तृतीयः पीतलेश्य" इति । अत्र ज्योतिष्काणां सुरत्वं ज्ञापितम् । “दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्नपर्यन्ता” इति । अत्र षोडशविकल्पा इति न ज्ञापितम् । इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश इति । अत्र प्रतीन्द्रादानं न कृतं, पूर्वयोर्दीन्द्रा इति । अत्र चतुरिन्द्रा इति न ज्ञापितम् ।। “पीतान्तलेश्या" इति, अत्र भवनपतिव्यन्तराणामसुरतासाधर्म्य ज्ञापितम्। शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोरिति । अत्र स्वर्गीयसूत्र ..... फल .... “भवनवासिनोऽसुरनागविद्युत्सुवर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः” इति। अत्र चेप्टानुक्रमस्तथाहि- असुरो म्लेच्छः, क्रौर्यात्स इव नागः, स्रगाकारतो नाग इव, विद्युत् वर्णाकाराभ्यां विद्युदिव, गरुडो विस्तारितपक्षः वर्णपराक्रमतो गरुड इव, अग्निः। अग्निमित्रं वायुः । वायुयोगान्मेघे स्तनितं(ते) समुद्रोपि तथाभूतः स्तनति । उदधिवेष्टितं द्वीपं, द्वीपे सुगमा दिगिति । मैवमिति चैन्न । सूर्याचन्द्रामसावित्यत्र तेजोऽपेक्षयैव १. "इदं किल श्रीपुण्यपत्तनस्थडेक्कनकॉलेजाह्वपाठशालासत्भाण्डागारस्थित-तत्त्वार्थभाष्यादर्शपरितो लिखित टिप्पणं यथातथं । पूर्वसंपादकेन परिशिष्टाख्यया मुद्रितम् ।” अस्मभिरपि हस्तप्रताभावात् पूर्वमुद्रितप्रत्यनुसारेण यथायोग्य अत्र मुद्रापितम् । २. ओङ्कारश्चाथशब्दश्च, द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्वा विनिर्यातौ, तेन माङ्गलिकावुभौ।।
SR No.005749
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorUdayprabhvijay
PublisherVijay Kesharchandrasuri Foundation Girivihar Turst
Publication Year1950
Total Pages462
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy