________________
परिशिष्ट-४
तत्त्वार्थाधिगमटीप्पणम् चरतीति। मनःपर्ययं तु सुविशुद्धकुलीनपुरुषवच्छुभाचारस्वामिनमेवाराधयतीत्येतयोर्महदन्तरम् । यथा हि
केवलज्ञानस्य कञ्चिदाभासो नास्ति एवमेतदपि निराभासम् ।। (अ०१ सू०२९) (पृ.२५६) 42. (पर्यायेण) - कोऽर्थः ?। मतिज्ञानादिभिर्वस्तुनो निर्धारणं न हि युगपत्कर्तुं शक्यतेऽतः पर्यायेणेत्युक्तम् ।
(पृ.२६६) 43. (अनुसमयमुपयोगः) - इह ये केचिद्वदन्ति युगपदिति समकालमेकसमयेऽपि ज्ञानदर्शने भगवतो
भवतस्तद्धान्तम् । कथमिति चेदुच्यते-ऽमी एवोमास्वातिनः, पञ्चमेऽध्याये “योगोपयोगी जीवेष्वादिमन्तौ भवतः” इति वक्ष्यन्ति । तथाविधजीवस्वाभाव्याद्, यस्मिन्समये ज्ञानोपयोगस्तस्मिन्दर्शनोपयोगो नास्ति । यस्मिंश्च दर्शनोपयागो न तस्मिन् ज्ञानोपयोग इति। "जुगवं दो नत्थि उवओगा” इति जिनागमसमुद्रः । यद्येवं तर्हि केवलज्ञानं साद्यनन्तं कथं प्रोच्यते, समयान्तरेणैव सादिसान्तत्वदर्शनात् । मैवं लब्ध्यपेक्षयाऽदः केवलं साद्यनन्ततया भण्यते, न चोपयोगापेक्षया। लब्धिस्तु तस्य सततमप्यस्ति । यथा देवानां लब्ध्यक्षं अवधिज्ञानं जन्मपर्यन्तं भवति । उपयोगापेक्षं त्वांतर्मुहूर्तिकमिति । अतो ज्ञेयं वस्तु केवलज्ञानेन युगपज्जानाति, दृश्यं च केवलदर्शनेन युगपत्पश्यति। न च द्वाभ्यां युगपदिति। (अ०१
सू०३१) (पृ.२६६) 44. (विपर्ययः) - यथा हि स्फटिकरत्नमूर्तिः स्वतो निर्मलापि पृष्ठिस्थापितकृष्णपटीकान्तिप्रविलासात्कृष्णेव
भवति, एवं मिथ्यात्वसम्पर्केण ज्ञानमप्यज्ञानम् । एकवचनं तु मिथ्यात्वमोहस्योदयापेक्षम् । एकेनैव
मिथ्यात्वेनैतानि क्षयोपशमरूपात्मकान्यप्यज्ञानानि स्युः (अ०१ सू०३२) (पृ.२७०) 45. (मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं)- कोऽर्थः येन कृत्वा उपचारः परमार्थतश्च यथारूपो ज्ञायते तच्च
ज्ञानम. येन च केवल एवोपचाराऽवबोधः प्राप्यते तदज्ञानम। यथा हि नाम कश्चिदनवाप्तसम्यक्त्वः प्रष्टव्यः- साधु ब्रूहि भोः किं वर्णः किं गन्धः किं रसः किं स्पर्शोऽयं घट इति। ततोऽसौ श्रुत्वा लोकव्यवहारगतमेव प्रश्नव्याकरणतर्क कर्तुमीष्टे। सम्यक्त्वलालितास्तु व्यवहारतः सर्वं दर्शयित्वा निश्चयतः पुनः पञ्चवर्णोद्विगन्धः, पञ्चरसोऽष्टस्पर्शों घट इत्यपि वक्तुं भवति, पुद्गलद्रव्यत्वेन घटदीपकपटकुलटादीनां तुल्यत्वात् ।। एवं च “अष्टषष्टिषु तीर्थेषु, यात्रायां यत्फलं भवेत्। आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् ।।१।।" (नाग पुराण) इत्यादि क्वचिन्मतान्तरशास्त्रेषु परमश्रद्धावतामपि ब्राह्मणसांन्यासिकादीनां मिथ्यात्वमेव भवति । ननु कथमिति चेत्, उच्यते । यथा नाम कश्चिदमात्यपुरोहितप्रभृतीन् भृशं भृशं प्रणामगोचरीकृत्वा राजानं प्रणमति तदुपरि राजा रुष्यति तुष्यति वा इति पृच्छामः । सहृदयास्तु कथयिष्यन्ति अयोग्यनीतिप्रवर्तको जडात्मा ग्रहिलो वाऽसाविति । तद्वत्कष्ण-ब्रह्म-पिनाकि-शाक्य-हेरम्ब-स्कन्देन्द्र-चन्द्र-नागेन्द्र-यम-कबेरादीनां प्रथमशः सत्कारकः कदाचिद्यदि कथंचित्तीर्थकरमहाराजस्यापि प्रणन्तारो भवन्त्येते किं जातमेतावता, अद्यापि हतात्मनां युक्तायुक्तविचारविमुखानां न चैव पार्षद्यता सिद्ध्यति । परमेष्ठित्वे तु निरष्टादश
दोषस्यैव कस्यचित्प्रवर्तनादितरे कथं प्रमाणीक्रियन्त इति ।। (पृ.२७१) 46. (उन्मत्तवत्)- मिथ्यामतघोरान्धकारनिकारभरितांतरात्मा न ह्येवं विमृशति ।।