________________
तत्त्वार्थाधिगमटीप्पणम्
तद्यथा- विष्णुः समुद्यतगदायुधरौद्रपाणिः, शंभुर्लुलन्नरशिरोस्थिकपालमाली ।
अत्यन्तशान्तचरितातिशयस्तु वीरः कं पूजयाम उपशान्तमशान्तरूपम् । । १ । । इत्यादि । । तच्च मिथ्यात्वं पञ्चविधं भवति, आभिग्रहिकानभिग्रहिकाभिनिवेशिकसांशयिकानाभोगभेदात्, तत्रेदमेव दर्शनं श्रेय इत्यभिग्रहेण निर्वृत्तं आभिग्रहिकम् । शैवसाङ्ख्यमीमांसकचार्वाकबौद्धबौटिकादीनामभिप्रेतम् ।१ । अनभिग्रहस्तु सर्वत्राऽविवेकात्तुल्यताचिन्तनं तज्जातमनभिग्रहिकम्। तद्वान् किल जिनराजं शिवमुकुन्दादिकं च देवं निर्विशेषं पश्यति, अदोऽपि महातिमिरं, प्रोज्ज्वलवस्तुगुणस्वरूपाशातनातोऽद्याप्यनिवृत्तेः २। अभिनिवेशः परमेश्वरभाषितादपि किञ्चिन्मतिकल्पनया भिन्नशः समुपदेशो जमालिचाण्डालादीनाम् ३ । संशयः संदेहस्तज्जातं सांशयिकमज्ञातपरमार्थानामद्यतनादीनां तत् । ४ । अनाभोगतश्चेतनावैकल्यं तज्जमनाभोगिकमसंज्ञिजीवानानम् ५। एतानि मोक्षैषिभिस्त्याज्यानि ।। (अ०१ सू०३३) (पृ.२७४) 47. (नया) इह सर्वे नया संमीलिता एव स्याद्वादः स्यात् । प्रवचनं जैनमतं स्याद्वाद इत्यनर्थान्तरम् । यदाहुः सिद्धसेनदिवाकरा वक्तृवचनयोरैक्यमध्यवस्य
“उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ? दृष्टयः ।
न च तासु भवान्प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः । । १ । ।” इति ।
“नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः । स्वाभिप्रेतादंशादितरांशापलापी पुनर्नयाभास" इति स्याद्वादरत्नाकराख्यन्यायशास्त्रम् । नैगमः प्राहकेवलिभास्करस्य समयान्तरशो ज्ञानं दर्शनं चेति । तदा तदाभासेन चिन्तितं नूनं सामान्यतो विशेषा : भिन्ना इति, सामान्यं द्रव्यं नित्यमित्यनर्थान्तरम् । विशेषाः पर्याया इत्यादि चानर्थान्तरम् । यदि च द्रव्यतः पयार्या अभिन्नास्तर्हि विशेषावबोधो ज्ञानम् । सामान्यावबोधश्च दर्शनमित्येतद्द्वयमप्येकसमये कथं न श्रद्धीयेतेत्याशयः । इह मा केऽपि भ्रमन्नसत्यविषयिणि दुर्वादे । यतः
" तवोपयोगी युगपत्कदापि न भो ! र्भवेतां यदमू स्वभावतः ।
सदापि सामान्यविशेषयोरतो, जगाद भेदं भूवि नैगमो नयः । । १ । । ” " समीक्ष्यसेऽतोऽत्र परापलापिनं, विदुस्तदाभासममर्मवेदिनम् । पृथक्प्रवृत्तावपि तावनारतं, यदेकसम्यक्त्वकलाविशालितौ । । २ । । ” इति । सम्यग्दर्शनविटपनिबद्धयोर्ज्ञानदर्शनपत्रयोर्न कान्तशो भिन्नतेत्यर्थः । किमुक्तं भवति य एव भावा स्वरूपतः केवलज्ञानेन विषयीक्रियन्ते त एवाऽवगाहनातः केवलदर्शनेन विलोक्यन्ते । स्वरूपविषयं हि ज्ञानम् । अवगाहनाविषयं च दर्शनम् । एतावता ज्ञानतः सर्वेषामप्यवगाहना न हि निर्धार्यते, दर्शनतश्च स्वरूपमिति अत एव तयोः साकारनिराकारताक्रमप्रोक्तिः । “सङ्ग्रहः स्माह” अनाद्यनन्ता जीवादय इति । ततः सङ्ग्रहाभासो व्यचिन्तयत्-पर्याया इह खलु ये क्षणक्षयिणस्तेषामभाव एव निश्चीयते, द्रव्यत्वस्यैव कृतार्थत्वादिति असावपि न सत्कार्यः । कथमन्यथा कालत्रयकल्पना समुचितेति । “व्यवहारेण भणितं” - यत्र यत्र नयनिन्द्रियस्य गोचरत्वं स स लोक इति, ततस्तदाभासोऽब्रवीत् “ एतावानेव लोकोऽयं, यावानिद्रियगोचर” इति। अयमपि महामूढः, यत एतावानिति पदश्रवणाद्बहवो विचारे पतन्ति भरतक्षेत्र
१७
परिशिष्ट-४