________________
परिशिष्ट-४
तत्त्वार्थाधिगमटीप्पणम्
भेवेदं लोको नान्य इति । तदा च देवनारकादीनामसंभवश्चेष्टते, स च प्रत्यक्षदुष्टः, अतो लोकस्य रज्जुचतुर्दशकप्रमाणता ज्ञेया ।। “ऋजुसूत्रो जगाद” - वर्तनाभिमता विश्वपदार्था इति । तत ऋजुसूत्राभासो विममर्श-वर्तमानसमयविषयमेव सत्यम्, इतरत्पुनरिन्द्रजालमिति। एषोऽपि पापीयान्, कथमन्यथा ज्ञानदर्शनाभ्यामतीतानागतवार्ता यथावदुपलभ्यत इति। अतीतानागतयोर्यस्मात् कथञ्चिन्नाशानुत्पादौ स्तः, असत्त्वमस्तीत्यर्थः। कथंचिच्च तद्वैपरीत्यं सत्त्वमप्यस्तीति स्याद्वादात् । “साम्प्रतशब्दः प्राह" - अर्हन् खलु य स तीर्थकरादिपर्यायवानपीति । ततस्तदाभासोऽस्मार्षीत् । अर्हच्छब्दपर्याय एव तीर्थकरशब्दपर्याय इति । असावपि बालिशत्वं पठति यतः, कथमन्यथा 'अहँ पूजायामिति धातुप्रयोगाद्विश्वत्रितयविनिर्मितपूजामर्हतीत्यर्हन्, तीर्थं चतुर्विधसङ्घ करोति निष्पादयतीति तीर्थंकर इति पृथक् पृथक् प्रयुज्यते, पूजाग्रहणप्रवचनसम्पादनपर्यायाणां कथञ्चिद्भिन्नत्वात् । न खलु परमपूज्यताज्ञापनेन तीर्थस्य कर्तृत्वज्ञापनमेकान्तशो लभ्यत इति । “समभिरूढो ब्रूते स्म” - अर्हत्तीर्थकरशब्दौ भिन्नावेव, भिन्नार्थत्वादिति, ततः समभिरूढाभासश्चिन्तयतिस्म- यः कश्चिदर्हन् सोऽन्य एव, यश्चापि कश्चित्तीर्थकरः सोऽप्यन्य एवेति । असौ जाल्मशेखरोऽपि परिहरणीयः । पर्यायाणां मिथो भेदेऽपि द्रव्यतस्तेषामेकत्वात् । “एवंभूतोऽथ व्याचष्टे” “अर्हणामधिगच्छन्नेवार्हन्नित्युच्यते । तदा तदाभासेन विचारितं ह्यः श्वो वा पूजाप्रकर्षं प्राप्तः प्राप्स्यति वा नासावर्हन्, अर्हतीति वर्तमानक्रियाशून्यत्वात् .तदिति । असावपि महतां हसनीयः, कूपमण्डूक इव तत्त्वानभिज्ञः। न हि खलु जलाहरणक्रियाविरहितोऽपि कदाचिद् घट इत्यनुच्यमानो घटो लोकोपचाराय जायत इति । इह नैगमावलम्बिनो नैयायिका वैशेषियकाश्च । सङ्ग्रहैकालम्बिनोऽद्वैतवादाः, साङ्ख्यदर्शनं च । व्यवहारैकानुपातिनश्चार्वाकाः । ऋजुसूत्रैकनिविष्टमतयो बौद्धाः । शब्दनयभेदावलम्बिनो वैयाकरणाः । सर्वेऽप्यमी पाखण्डप्रवृत्ताः संसारभारवाहा इति।
“बोद्धाश्च नैयायिकशैवकापिला-श्चार्वाकवैयाकरणाश्च बौटिकाः। - ये निह्नवाः सांशयिका विमेधसः, सर्वेऽपि ते संतमसस्वरूपिणः ।।१।।" तत्र बौद्धा: सौगताः शाक्याः शाक्यवंश्याः शून्यवादिनः क्षणक्षयिण इत्यनर्थान्तरम् । नैयायिकाः आशंपादा अक्षपदवंश्या इत्यनर्थान्तरम् । वैशेषिकाः शैवाः औलुक्या उलूकवंश्या इत्यनर्थान्तरम् । कापिला: कपिलवंश्या यौगाः साङ्ख्याः, वेदान्तिनोऽद्वैतवादिन इत्यनर्थान्तरम्, चार्वाका आत्मचर्वका आत्मखादका आत्मनिषेधका नास्तिका लौकायतिका बार्हस्पत्या बृहस्पतिवंश्या भूतवादिन अक्रियावादिन दृष्टमानिन इत्यनर्थान्तरम् । वैयाकरणा: शाब्दिका व्याकरणाधीतिनः शब्दविद इत्यनर्थान्तरम् । बौटिका दिगम्बरा जैनाभासाः शिवभूतिवंश्या नग्ना आजीविका इत्यनर्थानन्तरम् । निलवा निलवका द्रव्यलिङ्गिन गुप्तदम्भाः पण्डितमानिनः पामरा इत्यनर्थानन्तरम् । सांशयिकाः ससंशया बादरबुद्धयः श्लथमतयः साधारणवंश्या वातूलवशा इत्यनर्यान्तरम् । विमेधसो बाला जडा मन्दा मूर्खा समगोगवया बालिशा मूढा यथाजाता मातृमुखा विवर्णा अज्ञा वैधेया देवानांप्रिया जाल्मा अज्ञानिकाः शिशव इत्यनर्थान्तरम्। समासतस्तु इमे कृत्स्ना अपि यथा मिथ्यात्विन: मिथ्यामतयः कुवादिनः दुर्वादिनः पाखण्डिनो विदृशो हतदृशो निर्लोचनाः